________________
भर्तृहरिकृत-शतकत्रयम्
[३. ३७-३८] नानां कष्टानां शतं व्यसनशतं तस्य संपातेन विधुराः व्यसनशतसंपातविधुराः। बत इति खेदे । आत्मनि किमिव न अपकृतं विरूपं न कृतम् ? । यावद् वयं तावत् पुनरपि तदेव व्यवसितं उद्यमितम् । येन कर्मणा दुःखितैर्भूयेत ॥ ३६ ॥
[पुनरप्यभिमान( ? नितां प्राहन भिक्षा दुष्प्रापा पथि पथि मठारामसरितः
फलैः संपूर्णा भूर्विटपिमृगचर्मापि वसनम् । सुखे वा दुःखे वा सदृशपरिपाकः खलु तदा
त्रिणेनं कस्त्यक्त्वा धनलवमदान्धं प्रणमति ॥ ३६A ॥ कोऽभिमानी पुमान् [तदा] धनलवमदान्धं प्रणमति । किं कृत्वा ? । त्रिणेनं महेशं त्यक्त्वा । तदा इति कथम् ? । भिक्षा दुष्प्रापा न । पथि पथि मठारामसरितः। भूः पृथ्वी फलैः संपूर्णा । अपि पुनः विटपिमृगचर्म वसनं विटपिभूर्जत्वक् (१ ग्) मृगचर्मणी वस्त्रं । सुखे वा दुःखे वा सदृशपरिपाकः सदृक् कर्मणः फलं, खलु निश्चितम् । तदा धनलवमदान्धं कः प्रणमति ।
[हं. छ. ज. कोशेष्वेव अयं श्लोको दृश्यते । च. कोशे तु टीकामात्रम् अपूर्णम् ।] स्थितिः पुण्येऽरण्ये सह परिचयो हन्त हरिणैः
फलैर्मेध्या वृत्तिः प्रतिनदि च तल्पानि दृषदः। इतीयं सामग्री भवति हरभक्तिं स्पृहयतां
वनं वा गेहं वा सदृशमुपशान्तैकमनसाम् ॥ ३७ ॥ उपशान्तैकमनसां उपशान्तं [ अत एव ] एकं मनो येषां ते उपशान्तैकमनसः तेषां यतीनां वनं वा गेहं वा सदृशम् । इति अमुना प्रकारेण इयं सामग्री हरभक्तिं स्पृहयतां भवति । इतीति किम् ? । पुण्ये पवित्रेऽरण्ये स्थितः ( स्थितिः) । पुनः इतीति किम् ? । हन्त इत्यागमे । हरिणैः (ख. हिरणैः; हं. च. हिरण्यैः; छ. हरणैः ) सह परिचयः । चान्यत् फलैमध्या पवित्रा वृत्तिः (हं. ख. च. मेधा बुद्धिवृद्धिः)। प्राणवृत्तिरित्यर्थः । चान्यत् । प्रतिनदि नदी • नदी प्रति दृषदस्तल्पानि ॥ ३७॥
अमीषां प्राणानां तुलितबिशिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् । यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां
कृतं वीतवीडैनिजगुणकथापातकमपि ॥ ३८ ॥ १ ज.स्थितः पुण्यारण्ये। २ हं. ख. च. मेधा वृत्तिः।३ ज.स्पृहयति।४ यदन्धाना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org