________________
वैराग्यशतकम्
युक्तं केवलमेतदेव सुधियां यज्जह्रुकन्यापयः
पूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे निवासः कचित् ॥ ३४ ॥
[ ३. ३४-३६ ]
०
सुधियां पुरुषाणां केवलं एतदेव युक्तम् । यजहुकन्यापयः पूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे क्वचिन्निवासः । कोऽर्थः - जह्नुकन्यायाः गङ्गायाः पयसा पूताः पवित्रा ये ग्रावाणः तेषां योऽसौ गिरीन्द्रः पर्वतः तस्य या कन्दरस्य [ विवरस्य ] दरी गुफा (? हा ) तस्याः कुञ्जः जह्रुकन्यापयः पूतग्रावगिरीन्द्रकन्दरदरीकुञ्जः तस्मिन् । तत्र निवासो वरम् । क्क सति ? | माने म्लायिनि सति । चान्यत् । वसुनि खण्डिते सति । चान्यत् । अर्थिनि याचके व्यर्थे प्रयाते सति । चान्यत् क्व सति ? । क्षीणे बन्धुजने सति । पुनः क्क सति ? । परिजने गते सति । पुनः वसति । शनैः शनैः यौवने नष्टे सति । तदा वनवास एव रुचिरः ॥ ३४ ॥
परेषां चेतांसि प्रतिदिवसमाराध्य बेहु हा .
प्रसादं किं नेतुं विशेसि हृदय क्लेशकैलितम् । प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे
विमुक्तः (१क्ते) संकल्पः (१°ल्पात्) किमभिलषितं पुष्यति न ते ॥ ३५॥
1
हा इति खेदे । त्वं हृदय ! बहु प्रसादं किं नेतुं ग्रहीतुं विशसि ( ख. दिशसि ) । किं कृत्वा ? । परेषां अपरेषां चेतांसि प्रतिदिवसं दिवसं [ दिवस ] प्रति आराध्य । किं० प्रसादं ? | क्लेशकलितं ('लं ) कष्टमलिनम् । हे हृदय ! त्वयि अन्तर्मध्ये प्रसन्ने सति [ किम् ] अभिलषितं वाञ्छितं ते तव [न] पुष्यति । किं० त्वयि ? । स्वयमुदित चिन्तामणिगुणे । [ पुनः ] किं विशिष्टः (? °ष्टे ) त्वम् ( त्वयि ? ) ? । विमुक्तः (? ते) संकल्पः (? ल्पात् ) ( घ. विमुक्तेः मोक्षस्य संकल्पः ) ॥ ३५ ॥
* अनावर्ती कालो व्रजति स वृथा तन्ने गणितं
दशास्तास्ताः सोढा व्यसनशतसंपातविधुराः ।
कियद् वाचक्षामः किमिव बत नात्मन्यपकृतं
वयं यावत् तावत् पुनरपि तदेव व्यवसितम् ॥ ३६ ॥
[ स कालो व्रजति । अस्माभिः तन्न गणितम् । ] किं० काल: ? । अनावर्ती अपुनरागमी न पुनः आगमोऽस्यास्तीति असावपुनरागमी । तदस्यास्तीति इन्प्रत्ययः । अस्माभिस्तास्ताः दशाः सोढाः । तत् कियद् वा आचक्षामः । किं० दशाः ? । व्यसनशतसंपातविधुराः व्यस
१ ख. घ. बहुधा, ज. बहुधा हा । २ ख. दिशसि । ३ हं. छ. कलिलम् । ४ ध. विमुक्तेः । * हं. कोशे प्रथमपादोऽवशिष्टः । ५ घ. न गुणितं छ. निगणितं । ६ ख. वा वक्ष्यामः; व. वावक्षामः । ७ ख. घ. न्युपकृतं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org