SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिकृत-शतकत्रयम् [३. ३२-३३] वाग्ग्मिदर्पज्वरशमनविधौ (हं. अनुविधौ ) अक्षयं निश्चलं पाटवं वर्तते । हे राजन् ! त्वां बुधाः (धनान्धाः?) सेवन्ते मामपि श्रोतुकामाः श्रोतारः सेवन्ते । किमर्थम् ? । मतिमलहतये बुद्धिकालुष्यस्फेटनाय । हे राजन् ! ममापि त्वयि विषये एतत् आस्थानं एषः त्वं सुतरां अतिशयेन मां प्रति गतोऽसि प्राप्तोऽसि । एतावता तव मम किमप्यन्तरं नास्ति ॥ ३१॥ . आत्मनो गुणागुणविवेचनमाहयदा किंचिज्ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः। यदा किंचित् किंचिद् बुधजनसकाशादवगतं .. तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ३२ ॥ अहं यदा यस्मिन् प्रस्तावे [मदान्धः द्विप इव हस्तीव समभवम् । किं० अहम् । किंचिज्ज्ञः किंचिज्जानातीति किंचिज्ज्ञः । यत्तदोर्नित्यसंबन्धः । तदा मम मनः इति अवलिप्तं अभवत् । इतीति किम् ? । अझं (-2 'हं.) सर्वज्ञोऽस्मि । यदा यस्मिन् प्रस्तावे] बुधजनसकाशात् पण्डितवर्गसमीपात् किंचित् किंचित् अवगतं ज्ञातम् । तदा इति अमुना प्रकारेण मे मम मदो व्यपगतो दूरीभूतः । इतीति किम् ? । अहं मृोऽस्मि । मदः क इव ? । ज्वर इव । यथा कस्यापि ज्वरो याति तथा मे मम अहंकारो यातः ॥ ३२ ॥ अथ निर्ममतास्वरूपमाह अतिक्रान्तः कालो लैटभललनाभोगसुभगो __ भ्रमन्तः श्रान्ताः स्मः सुचिरमिह संसारसरणिम् । इदानीं स्वःसिन्धोस्तटभुवि समाक्रन्दनगिरः __ सुतारैः पूत्कारैः शिव शिव शिवेति प्रतनुमः॥ ३३ ॥ हे बाले ! लटभललनाभोगसुभगः कालो अतिक्रान्तो अतिचक्राम संपूर्णीकृतः । लटभाः सलावण्या या ललनास्तासां भोगेन सुभगो मनोज्ञः लटभललनाभोगसुभगः । इह अस्मिन् मर्त्यलोके संसारसरणिं सुचिरं भ्रमन्तः श्रान्ताः स्मः । इदानीं स्वासिन्धोः स्वर्गगङ्गायाः तटभुवि कच्छस्थलीषु शिव शिव शिवेति प्रतनुमः विस्तारयामः । कथंभूता वयं ? । सुतारैः पूत्कारैः समाक्रन्दनगिरः । रे बाले त्वं कासि ? । तव सम्मुखं न विलोकयामः ॥ ३३ ॥ माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैर्योवजे । १ ख. ग. गज। २ ख. घ. ललित'। ३ ज. सुलभो। ४ ग. छ. व्यर्थे । ५ग. शनियौं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy