________________
वैराग्यशतकम्
पुरा विद्वत्तासीदुपशमवतां क्लेशहतये
गता कालेनासौ विषयसुखसिद्ध्यै विषयिणाम् । इदानीं तु प्रेक्ष्य क्षितितलभुजः शास्त्रविमुखान्
अहो कष्टं सापि प्रतिदिनमधोधः प्रविशति ॥ २९ ॥
[ ३.२९-३१ ]
पुरा पूर्व उपशमवतां विद्वत्ता वैदुष्यं क्लेशहतये संसारनिवारणाय आसीत् । असौ विद्वत्ता कालेन गच्छता विषयिणां पुरुषाणां विषयसुखसिद्ध्यै गता । अहो इति खेदे । कष्टं विलोक्यताम् । इदानीं [तु] सापि विद्वत्ता प्रतिदिनं दिनं दिनं प्रति अधोधः प्रविशति । [ किं ? ] कृत्वा ? | शास्त्रविमुखान् क्षितितलभुजः प्रेक्ष्य निरीक्ष्य ॥ २९ ॥
साहंकारपुरुषस्योद्दिश्याह
स जातः कोऽप्यासीनमदनरिपुणो (१° णां ) मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलंकार विधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ ३० ॥
स जातः कोऽपि पुरुषः आसीत् । यस्य पुरुषस्य कपालं उच्चैर्यथा भवति मदनरिपुणोर (? पुणा ) ( ख. रिपोर्) महेशस्य ( ° शेन ) मूर्ध्नि मस्तके अलंकार विधये (ख. च. विषये ) विनिहितम् । किं० कपालम् ? । धवलं उज्ज्वलं । अधुना इदानीं कैश्चिन्नमद्भिः (हं. अनमद्भिः) नृभिः पुंसां पुरुषाणां कोऽयं अतुलदर्पज्वरभरः । किं० नृभिः ? | प्राणत्राणप्रवणमतिभिः प्राणस्य त्राणं प्राणत्राणं प्राणत्राणे प्रवणा मतिः येषां ते प्राणत्राणप्रवणमतयः तैः । शिवस्य शिरः पूजाकारी मृतोऽपि धन्यः । अन्ये राज्यस्मृतोऽपि (3) जीवन्तोऽपि मृताः । शिवभक्त्यभावात् ॥ ३०॥
नामीशिषे त्वं वयमपि च गिरामीमहे यावदित्थं शूरस्त्वं वाग्मिदर्पज्वरशैमनविधावक्षयं पाटवं नः । सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा
मामप्यास्थानमेतत् त्वयि मम सुतरामेष राजन् गतोऽसि ॥ ३१ ॥
हे राजन् ! त्वं अर्थानां ईशिषे त्वं समर्थो भवसि । चान्यत् । वयमपि गिरां वाणीनां ईश्महे समर्थाः भवामः । चान्यत् । त्वं यावत् इत्थं अमुना प्रकारेण शूरो नो अस्माकं
१'हं. 'नाशौ । २ हं. ज. सा । ३ख. ग. मदनविजयिनो; घ. मदनजयिनो । ४ ज. विनिहतम् । ५ च 'प्रणव' । ६ ज. ज्वरमतुल' । ७ ख. घ. मामिह । मय्यप्यास्थानं, ग. मानाप्यास्थानं, च. मानप्यास्थानं । ९ ख. घ. गतोऽस्मि ।
८ ख. घ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org