SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १० [३. ५३-५५] . वैराग्यशतकम् यदेतत् स्वाच्छन्धं विहरणमकार्पण्यमशनं सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् । मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन् न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ५३ ॥ तदहं न जाने । एषा कस्य उदारस्य तपसः परिणतिः परिणामो वर्तते । एषा का परिणतिः ? । यदेतत् स्वाच्छन्दयं विहरणम् । अन्यच्च अकार्पण्यं अशनं प्रबलं भोजनम् । अन्यच्च सहायः (साहाय्यैः-सहायैः) संवासः परिकरेण सह निवासः । [अन्यच्च ] उपशमैकवतफलम् उपशमरसोद्भासितं श्रुतं शास्त्रम् । [अन्यच्च ] बहिरपि बाह्यप्रदेशेऽपि मनो मन्दस्पन्दं कल्पनारहितम् । अहं किं कुर्वन् । चिरस्य चिररात्राय [अपि] विमृशन् विमर्शनां कुर्वन् । चिरकालं चिन्तयन्नित्यर्थः ॥ ५३ ॥ . पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यमक्षय्यमन्नं विस्तीर्ण वस्त्रमाशादशकमपमलं तल्पमस्वल्पमुर्वी । येषां निःसङ्गताङ्गीकरणपरिणतिः खात्मसंतोषिणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ५४॥ धन्यास्त एव ये कर्म निर्मूलयन्ति । किं० धन्याः ? । संन्यस्तदैन्यव्यतिकरनिकराः संन्यस्तो निराकृतो दैन्यव्यतिकरस्य निकरो यैस्ते संन्यस्तदैन्यव्यतिकरनिकराः । पुनः किं० ते ।। खात्मसंतोषिणः स्वात्मन्येव संतोषो येषां ते स्वात्मसंतोषिणः । अन्यच्च । येषां पुरुषाणां निःसङ्गवाङ्गीकरणपरिणतिः निःसङ्गतायाः अङ्गीकरणं निःसजताङ्गीकरणं तस्य परिणतिः निःसङ्ग । येषां पुरुषाणां पात्रं भोजनभाण्डं पाणिः हस्तः (ख. हं. च. हस्तौ)। पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षयं(य्यं) अव्ययं अन्नम् अनघं । वस्त्रं विस्तीर्ण आशादशकं अपमलं निर्मलम् । अस्वल्पं विस्तीर्ण [तल्पं ] शय्या उर्वी पृथ्वी । एवंविधस्वरूपेण ये संसारपारं 'गच्छन्ति त एव धन्याः ॥ ५४॥ दुराराध्यः स्वामी तुरगचलचित्ताः क्षितिभुजो वयं च स्थूलेच्छा महति च पदे बद्धमनसः। जरा देहं मृत्युहरति सैकलं जीवितमिदं सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ ५५ ॥ . १ घ. साहाय्यैः; हं. सहायैः। २ घ. शकलं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy