________________
भर्तृहरिकृत - शतकत्रयम्
[ ३.५६-५७ ]
हे सखे ! जगति रसायां विदुषः पण्डितस्य तपसः अन्यत्र अन्यत् श्रेयः कल्याणं न । कथम् ? । स्वामी अधिपतिः दुराराध्यः । क्षितिभुजो राजानः तुरगचलचित्ताः तुरंगमवत चपलचेतसः । तु(च) पुनः वयं स्थूलेच्छाः । चान्यत् महति पदे मुक्तिलक्षणे बद्धमनसः । जरा देहं हरति मृत्युः इदं सकलं जीवितं हरति । ततस्तपसा विना श्रेयो न ॥ ५५ ॥ भोगा मेघवितानमध्यविलसत्सौदामिनी चञ्चला
१०२
आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद् भङ्गुरम् । लोला यौवनलालना तनुभृतामित्याकलय्य द्रुतं
।
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदे [द]ध्वं बुधाः ॥ ५६ ॥ बुधाः पण्डिताः ! योगे मनोवचनकायसंरोधलक्षणे बुद्धिं विद[द्]ध्वम् । इतरदखिलं 'तृणतुषप्रायम् । कथं ? । भोगाः पञ्चाङ्गाः मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः कोऽर्थः ? । मेघवितानमध्ये विलसन्ती या सौदामिनी विद्युत् तद्वत् चञ्चलाश्चपलाः । चान्यत् । आयुर्जीवितं वायुविघट्टिताभ्रपटलीलीनाम्बुवत् भङ्गुरम् । वायुना विघट्टिता या अप तत्र लीनं यदम्बु पानीयं तद्वद् वायुविघट्टिताभ्रपटलीलीनाम्बुवद् भङ्गुरं विनाशशीलम् । तनुभृतां प्राणिनां यौवनलालना तारुण्यप्रतिपालना लोला चञ्चला वर्तते । इति आकलय्य इति विचिन्त्य द्रुतं शीघ्रं योगे मनो विद [द्]ध्वम् । [ किं० योगे ? । धैर्यसमाधिसिद्धिसुलमे (सुभगे ) । ] ॥ ५६ ॥
पुण्ये ग्रामे वने वा महति सितपटच्र्च्छन्नपालीं कपालीम्
आदाय न्याय गर्भद्विजहुतहुतभुग्भूमधूम्रोपकैण्ठम् ।
द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी स धन्यो न पुनरनुरदिनं तुल्यकुल्येषु दीनः ॥५७॥
मानी प्राणी अभिमानी पुमान् क्षुधार्तः स धन्यः ( हं. छ. ज. सुधन्यः ) वरं सुष्ठु । ( छ. पुनः तुल्यकुल्येषु अनुदिनं दीनः न वरम् । तुल्यकुल्ये ( ? ले ) षु भवाः तुल्यकुल्याः तेषु । पुनः प्राणी ) उदरदरीपूरणाय द्वारं द्वारं प्रवृत्तो वरं । किं कृत्वा ? । महति ग्रामे वा अथवा कपाली कर्परं ( छ. कर्परीं ) आदाय गृहीत्वा । किं० कपालीं ? । सितपटच्छन्नपालीं सितपटेन श्वेतवस्त्रेण छन्ना अच्छादिता पाली यस्याः सा सितपटच्छन्नपाली तां । किं० ग्रामे वा वने ? | पुण्ये पवित्रे। किं० द्वारं ? । न्यायगर्भद्विजहुतहुतभुग्भूमधूम्रोपकण्ठं न्यायगर्भेण [ हं. र्मितेन ] न्यायशास्त्रपठितेन द्विजेन हुतो योऽसौ हुतभुग् वैश्वानरः तस्य योऽसौ भूम (मा) प्रचुरो धूम्रस्तेन व्याप्तं उपकण्ठं यस्य तत् न्यायगर्भद्विजहुतहुतभुग्भूमधूम्रोपकण्ठम् ॥ ५७ ॥
पालीं ।
१ हं. सौदामनी । २ ख. घ. छ. सुभगे । ३ छ. ददध्वं जनाः । ५ ग. छ. ज. धूमधूम्रोप° । ६ख. घ. कन्तम् ।
For Private & Personal Use Only
Jain Education International
४. ग. छिन्न
www.jainelibrary.org