________________
१०३
[३. ५८-६०]
वैराग्यशतकम् चण्डालः किमयं द्विजातिरथ वा शूद्रोऽथ किं तापसः
किं वा तत्त्वनिवेशपेशलमतियोगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैः संभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यास्यन्ति ते योगिनः॥ ५८ ॥ त (ख. च. अत ) एव योगिनो ये पथि मार्गे जनैः एवं संभाष्यमाणाः न क्रुद्धाः यास्यन्ति नैव तुष्टमनसो यास्यन्ति । किं० जनैः । इत्यमुना प्रकारेण [ उत्पन्न ] विकल्पजल्पमुखरैः। इतीति किम् ? । अयं किं चण्डालः वा अथवा द्विजो ब्राह्मणः अथवा शूद्रः। अथ किं तापसः । किं वा अथवा योगीश्वरः। किं० योगीश्वरः ? । तत्त्वनिवेशपेशलमतिः तत्त्वनिवेशे पेशला मनोज्ञा मतिर्यस्य असौ । एवंविधा [ये निर्विकल्पास्त एव धन्याः॥५८॥
सखे धन्याः केचित् त्रुटितभवबन्धव्यतिकरा
वनान्ते चित्तान्तर्विषमविषयाशीविषगताः । शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां
नयन्ते ये रात्रिं सुकृतचयचित्तकशरणाः ॥ ५९ ॥ हे सखे ! हे मित्र ! त एव धन्याः केचित् ये एवं प्रकारेण रात्रिं नयन्ते । किं० ते ! । सुकृतचयचित्तैकशरणाः सुकृतानां चयः समूहः सुकृतचयः, सुकृतचयः चित्ते एकं शरणं 'येषां ते सुकृतचयचित्तैकशरणाः । पुनः किं० ते ? । त्रुटितभवबन्धव्यतिकराः त्रुटितो भवबन्धस्य व्यतिकरो येषां ते त्रुटितभवबन्धव्यतिकराः । पुनः किं० ते ?। वनान्ते वनमध्ये चित्तान्तर्विषमविषयाशीविषगताः चित्तान्तः मानसमध्ये विषमो योऽसौ विषय एवाशीविषः दृष्टिविषोरगः [स] गतो येषां ते चित्तान्तर्विषयविषयाशीविषगताः । वा विषमविषयाशीविगलिताः पाठः । किं० रात्रिम् ? । शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगाम् शरच्चन्द्रस्य ज्योत्स्ना शरच्चन्द्रज्योत्स्ना तया] शरत्कालीनचन्द्रमसः कान्त्या धवलेन गगनाभोगेन नभोविस्तारेण सुभगा मनोज्ञा सा शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगा ताम् ॥ ५९॥
एतस्माद् विरमेन्द्रियार्थगहनादायासकादाश्रयाच्
छेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ६०॥ १ हं. च. चाण्डालः। २ ज. वा। ३ हं. माना; ख. घ. मानो। ४ ख. ग. घ. 'यान्ति स्वयं । ५ हे. 'योत्स्ना। ६ ख. घ. नयन्त्येते। ७ छ. कोशे श्लोकोऽयं स्थलान्तरे रश्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org