________________
१०४ . भर्तृहरिकृत शतकत्रयम्
[३. ६१-६२] हे चेतः! हे आत्मन् ! अधुना प्रसीद प्रसादं कुरु। एतस्मादिन्द्रियार्थगहनाद् विरम। किं० इन्द्रियार्थगहनात् ? । आयासकादाश्रयात् कुत्सितः आश्रयः कदाश्रयः, कदाश्रयस्य भावः कादाश्रयः, आयासेन कादाश्रयः आयासकादाश्रयः तस्मात् । क्षणात् शान्तं भावमुपैहि । किं० शान्तं भावम् ? । श्रेयोमार्ग मोक्षमार्गम् । पुनः किं० शान्तं भावम् ? । अशेषदुःखशमनव्यापारदक्षम् अशेषाणि यानि दुःखानि तेषां शमनव्यापारे दक्षः अशेषदुःखशमनव्यापारदक्षस्तम् । हे चेतः ! निजां कल्लोललोलां गतिं संत्यज परिहर । भूयः पुनरपि भङ्गरां विनश्वरां भवरतिं मा भज सेवय । एभिलक्षणैः संसारस्य वृद्धिरेव स्यात् । तत् तस्मात् कारणात् तानि चेष्टितानि त्यज ॥६०॥
पुण्यैर्मूलफलैः प्रिये प्रणयिनि प्रीतिं कुरुष्वाधुना
भूशय्यानववल्कलैरकरणैरुत्तिष्ठ यामो वनम् । क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा
चित्तव्याधि(ध्य )विवेकविह्वलगिरां नामापि न श्रूयते ॥ ६१॥ हे प्रणयिनि ! हे प्रिये ! उत्तिष्ठ उत्तिष्ठ ! वनं यामः। यत्र ईश्वराणां धनवतां नामापि न श्रूयते । किं. ईश्वराणां ? । क्षुद्राणां तुच्छानाम् । अन्यच्च अविवेकमूढमनसां अविवेकेन मूढं मनो येषां तेषाम् । पुनः किं० ईश्वराणां ?। चित्तव्याधि(ध्य)विवेकविह्वलगिरां चित्तव्याधीनां अविवेकेन (छ. विवेकेन ) विह्वला गीर्वाणी येषां ते चित्तव्याधि(ध्य)विवेकविह्वलगिरः तेषाम् । हे प्रिये ! [ अधुना संप्रति ] पुण्यैः पवित्रैः मूलफलैः प्रीतिं कुरुष्व । अन्यच्च । भूशय्यानववल्कलैः प्रीतिं कुरुष्व । किं० भूशय्यानववल्कलैः ?। अकरणः क्रियत इति करणं न करणं अकरणं तैः अकरणैः करणक्रियारहितैरित्यर्थः ॥ ६१ ॥
मोहं मार्जयतामुपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीतटेंभुवामासङ्गमङ्गीकुरु । को वा वीचिषु बुबुदेषु च तडिल्लेखासु च स्त्रीषु च . ज्वालाग्रेषु च पन्नगेषु च सरिद्वेगेषु कः(नः) प्रत्ययः ॥ ६२ ॥
रे चेतः! मोहं मार्जयतां दूरीक्रिय(१० कुरु)ताम् । रे प्राणिन् ! चन्द्रार्ध(च. चन्द्रार्क) चूडामणौ रतिं संतोषं उपार्जय । रे चेतः ! स्वर्गतरङ्गिणीतटभुवां (जा) स्वर्गतरङ्गिणी गङ्गा [तस्याः तटभुवां तीरभूमीनां ] आसङ्गं संगतिं अङ्गीकुरु । नः अस्माकं वा अथवा को वीचिषु कल्लोलेषु प्रत्ययो विश्वासः। चान्यत् । जलबुबुदेषु वर्षावारिसंपुटेषु कः प्रत्ययः । चान्यत् ।
१ ख. घ. पुष्पै । २ ग. ज. वित्त । ३ ख. घ. "विकार'। ४ घ. चन्द्रार्क । ५ ह. च. तटभुजाम्। ६ च. तटिल्लेखा। ७ ग. च. नः; हं. न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org