SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १०५ [३. ६३-६५] वैराग्यशतकम् तडिल्लेखासु सौदामिनीषु कः प्रत्ययः । चान्यत् । स्त्रीषु कः प्रत्ययः। चान्यत् । ज्वालाग्रेषु कः प्रत्ययः । चान्यत् । पनगेषु कः प्रत्ययः । चान्यत् । सरिद्वेगेषु तटिनीप्रवाहेषु कः प्रत्ययः। यथा एतेषु स्थानेषु (हं. स्थानकेषु ) नः अस्माकं प्रत्ययो नास्ति तथा जीवितेषु ॥ ६२ ॥ अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः __ पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं । नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६३ ॥ रे चेतः! यदि एवमस्ति तदा भवरसास्वादने लम्पटत्वं कुरु । एवं किम् ? । यदि तवाग्रे स्फीतं प्रचुरं गीतं भवति । अन्यच्च पार्श्वतो दाक्षिणात्याः दक्षिणदेशीयाः सरसकवयः भवन्ति । अन्यच्च पृष्ठे चामरग्राहिणीनां सुन्दरीणां [लीला] वलयरणितं शब्दं (ब्दो) भवति । यदि एवंविधं सौख्यं भवति तदा संसारस्य ममतां कुरु । रे चेतः! चेदेवं नो तदा सहसा निर्विकल्पे समाधौ प्रविश प्रवेशं कुरु ॥ ६३ ॥ विरमत बुधा योषित्सङ्गात् सुखात् क्षणभङ्गरात कुरुत करुणामैत्रीप्रज्ञावधूजनसंगमम् । न खलु नरके हाराकान्तं घेनस्तनमण्डलं शरणमथ वा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ ६४ ॥ हे बुधाः! योषित्सङ्गात सुखात् विरमत विरतिं भजत। किं० सुखात् ? । क्षणभङ्गरात् । करुणामैत्रीप्रज्ञावधूजनसंगमं कुरुत विदधत । करुणा च मैत्री च प्रज्ञा च करुणामैत्रीप्रज्ञा) सैवरता एव)वधूजनः(नाः तस्य तेषां)संगमः करुणामैत्रीप्रज्ञावधूजनसंगमः तम् । खलु निश्चितम् । नरके घनस्तनमण्डलं अथवा श्रोणीबिम्बं नितम्बबिम्बं न शरणम् । किं० स्तनमण्डलम् । हाराकान्तं हारविभूषितम् । पुनः किं० श्रोणीबिम्बम् ? । रणन्मणिमेखलम् रणन्ती शब्दन्ती मणिमेखला यस्मिन् तत् रणन्मणिमेखलम् ॥ ६४ ॥ प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले शक्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णाश्रो(स्रो)तोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्या सर्वशास्त्रेष्वनुपहतविधिश्रेयसामेष पन्थाः ॥ ६५ ॥ १एतच्छोकानन्तरं है. कोशे 'कार्कश्यं स्तनयोर्' इति श्लोको दृश्यते । 'ओधाक्षिपकोऽयं' इति टीकायाम् । तदनन्तरं 'एता हसन्ति च'। २६. छ. ज. घनं स्तन । १४ शतकत्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy