Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 137
________________ भर्तृहरिकृत - शतकत्रयम् [ ३.५६-५७ ] हे सखे ! जगति रसायां विदुषः पण्डितस्य तपसः अन्यत्र अन्यत् श्रेयः कल्याणं न । कथम् ? । स्वामी अधिपतिः दुराराध्यः । क्षितिभुजो राजानः तुरगचलचित्ताः तुरंगमवत चपलचेतसः । तु(च) पुनः वयं स्थूलेच्छाः । चान्यत् महति पदे मुक्तिलक्षणे बद्धमनसः । जरा देहं हरति मृत्युः इदं सकलं जीवितं हरति । ततस्तपसा विना श्रेयो न ॥ ५५ ॥ भोगा मेघवितानमध्यविलसत्सौदामिनी चञ्चला १०२ आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद् भङ्गुरम् । लोला यौवनलालना तनुभृतामित्याकलय्य द्रुतं । योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदे [द]ध्वं बुधाः ॥ ५६ ॥ बुधाः पण्डिताः ! योगे मनोवचनकायसंरोधलक्षणे बुद्धिं विद[द्]ध्वम् । इतरदखिलं 'तृणतुषप्रायम् । कथं ? । भोगाः पञ्चाङ्गाः मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः कोऽर्थः ? । मेघवितानमध्ये विलसन्ती या सौदामिनी विद्युत् तद्वत् चञ्चलाश्चपलाः । चान्यत् । आयुर्जीवितं वायुविघट्टिताभ्रपटलीलीनाम्बुवत् भङ्गुरम् । वायुना विघट्टिता या अप तत्र लीनं यदम्बु पानीयं तद्वद् वायुविघट्टिताभ्रपटलीलीनाम्बुवद् भङ्गुरं विनाशशीलम् । तनुभृतां प्राणिनां यौवनलालना तारुण्यप्रतिपालना लोला चञ्चला वर्तते । इति आकलय्य इति विचिन्त्य द्रुतं शीघ्रं योगे मनो विद [द्]ध्वम् । [ किं० योगे ? । धैर्यसमाधिसिद्धिसुलमे (सुभगे ) । ] ॥ ५६ ॥ पुण्ये ग्रामे वने वा महति सितपटच्र्च्छन्नपालीं कपालीम् आदाय न्याय गर्भद्विजहुतहुतभुग्भूमधूम्रोपकैण्ठम् । द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो मानी प्राणी स धन्यो न पुनरनुरदिनं तुल्यकुल्येषु दीनः ॥५७॥ मानी प्राणी अभिमानी पुमान् क्षुधार्तः स धन्यः ( हं. छ. ज. सुधन्यः ) वरं सुष्ठु । ( छ. पुनः तुल्यकुल्येषु अनुदिनं दीनः न वरम् । तुल्यकुल्ये ( ? ले ) षु भवाः तुल्यकुल्याः तेषु । पुनः प्राणी ) उदरदरीपूरणाय द्वारं द्वारं प्रवृत्तो वरं । किं कृत्वा ? । महति ग्रामे वा अथवा कपाली कर्परं ( छ. कर्परीं ) आदाय गृहीत्वा । किं० कपालीं ? । सितपटच्छन्नपालीं सितपटेन श्वेतवस्त्रेण छन्ना अच्छादिता पाली यस्याः सा सितपटच्छन्नपाली तां । किं० ग्रामे वा वने ? | पुण्ये पवित्रे। किं० द्वारं ? । न्यायगर्भद्विजहुतहुतभुग्भूमधूम्रोपकण्ठं न्यायगर्भेण [ हं. र्मितेन ] न्यायशास्त्रपठितेन द्विजेन हुतो योऽसौ हुतभुग् वैश्वानरः तस्य योऽसौ भूम (मा) प्रचुरो धूम्रस्तेन व्याप्तं उपकण्ठं यस्य तत् न्यायगर्भद्विजहुतहुतभुग्भूमधूम्रोपकण्ठम् ॥ ५७ ॥ पालीं । १ हं. सौदामनी । २ ख. घ. छ. सुभगे । ३ छ. ददध्वं जनाः । ५ ग. छ. ज. धूमधूम्रोप° । ६ख. घ. कन्तम् । For Private & Personal Use Only Jain Education International ४. ग. छिन्न www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188