Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 132
________________ वैराग्यशतकम् किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः संप्राप्यन्ते जरंठहरिणाः शृङ्गकण्डूविनोदम् ॥ ४३ ॥ [ ३. ४३-४५ ] किमिति संभावनायाम् । मम तैः सुदिवसैर्भाव्यम् । यत्र दिवसेषु जरठहरिणाः प्रौढमृगाः निर्विशङ्काः सन्तः [ निर्गता विशेषेण शङ्का येषां ते ] शृङ्गकण्डूविनोदं विषाणघर्षणलीलां संप्राप्यन्ते । किंभूतस्य मम ? । हिमगिरिशिलाबद्धपद्मासनस्य हिमगिरिशिलायां बद्धं पद्मासनं येन [सः ] हिमगिरिशिलाबद्धपद्मासनस्तस्य । क ? । गङ्गातीरे । पुनः किं० मम ? | योगनिद्रां गतस्य योगस्य निद्रा योगनिद्रा [तां], योगनिद्रायां (निद्रां ) प्राप्तस्य । केन ? | ब्रह्मध्यानाभ्यसनविधिना ब्रह्मध्यानस्य अभ्यसनं ब्रह्मध्यानाभ्यसनं, तस्य यो विधि : [ सः ] ब्रह्मध्यानाभ्यसनविधिः, तेन । एवंविधेन निर्मलभावेन सुखसाध्यसिद्धा (साध्या) सिद्धिः ॥ ४३ ॥ स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने सुखासीनः शान्तध्वनिषु रजनीषु घुसरितः । भवाभोगोद्विमः शिव शिव शिवत्यार्तवचसा कदा स्यामानन्दोद्गतबहुल बोलत ॥ ४४ ॥ अहं शिव शिव शिवेत्यार्तवचसा कदा स्याम् ? । किं० अहं ? । भवा भोगोद्विनः भवस्य संसारस्याभोगस्तत्र उद्विग्नः । किंभूतेन वचसा ? । आनन्दोद्गतबहुलबाष्पप्लुतदृशा [ आनन्देन उद्गतानि बहुलानि बाष्पाणि तैः प्लुते दृशौ यस्मिन् तत् ] आनन्दोद्गतबहुलबाष्पप्लुतदृक् तेन । क्व ? । द्युसरितः गङ्गायाः क्वापि निर्जने ( हं. निर्व्यजने ) पुलिने । [ किं० पुलिने ? | स्फुरत्फारज्योत्स्नाधवलिततले स्फुरन्ती दीप्यमाना स्फारा प्रचुरा या ज्योत्स्ना तया धवलितं शुकृतं तलं यस्य तत् तस्मिन् । किं भूतोऽहम् । ] सुखासीनः । कासु ? । रजनीषु । किं० रजनीषु ? | शान्तध्वनिषु उपशान्तशब्दासु । एवंविधाः वासराः भाग्यहीनानां ( छ. संभोगहीनानां ) न भवेयुः ॥ ४४ ॥ महादेवो देवः सरिदपि च सैवमरसरिद् गुहा एवागारं वसनमपि ता एव हरितः । सुहृद् वा कालोऽयं व्रतमिदमदैन्यत्रतमिदं कियद् वा वक्ष्यामो वैटविटप एवास्तु दयिता ॥ ४५ ॥ Jain Education International ९७ १ ख. ग. संप्राप्स्यन्ते । २ हं. ग. च. छ. ज. जठर । ३ ज. 'विनोदाः । ४ छ. ज. स्फारा । ५ ख. ग. घ. सुखासीनाः । ६ ख. ग. गोडिनाः । ७ घ. व त्यात्त । ८ग. अ. 'वचसः । ९ ग. स्यामो हर्षोद्गल । १० ख. ग. 'बहल । ११ छ. ज. 'बापा' । १२ 'ढशः । १३ ख. सैवासुर । १४ ज. सरितः । १५ ख. व्रजतिमिदं । ९६ ख. घ. नट । १३ शतकत्र• For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188