Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 119
________________ भर्तृहरिकृत-शतकत्रयम् [३.९-११] दीनादीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा ___ कोशद्भिः क्षुधितैनरैन विधुरा दृश्येत चेद् गेहिनी । याआभङ्गभयेन गद्गदगलतंत्रुट्यद्विलीनाक्षरं __को देहीति वदेत् स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥९॥ को मनखी पुमान् कोऽभिमानी पुरुषः स्वदग्धजठरस्यार्थे स्वकीयदुःपूरोदरपूरणाय इति वदेत् ? । इतीति किम् ? । देहि । कथं ? । यथा भवति गद्गदगलतत्रुट्यद्विलीनाक्षरं गद्गदगलन्ति च त्रुट्यन्ति च विलीनानि च विलयं गतानि अक्षराणि यत्र तत् गददगल त्रुट्यद्विलीनाक्षरम् । केन ? । याच्याभङ्गभयेन याच्ञाया भङ्गः याच्जाभङ्गः तस्य भयं याच्याभङ्गभयम् तेन । अन्यच्च । चेद्यदि नरैर्मनुष्यैर्गेहिनी गृहिणी सदैव सर्वदैव क्षुधितैः शिशुकैः आकृष्टजीर्णाम्बरा सती विधुरा न दृश्येत व्याकुला न विलोक्येत । किं० शिशुकैः ? । कोशद्धिः रुदद्भिः । पुनः किं० शिशुकैः ? । दीनादीनमुखैः । दीनानि च अदीनानि च मुखानि येषां ते दीनादीनमुखास्तैः ॥ ९॥ निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः । शनैर्यद्युत्थानं घनतिमिररुद्धे च नयने अहो धृष्टः कायस्तदपि मरणापायचकितः ॥ १० ॥ अहो इत्याश्चर्ये । अयं कायः अयं देहः तदपि मरणापायचकितः। तदपि किम् । निवृत्ता भोगेच्छा । चान्यत् । पुरुषबहुमानो विगलितः । अन्यच्च समानाः समानवयसः सुहृदो मित्राणि [ सपदि शीघ्र ] स्वर्याताः सुरलोकं प्रापुः । किं० सुहृदः ? । जीवितसमाः प्राणतुल्याः।यदि चेत् शनैरुत्थानं अर्थादुपवि(वे)शनं च । चान्यत् । नयने घनतिमिररुद्धे जाते। तथाप्ययं कायः मरणाद् बिभेति मरणं नेच्छतीत्यर्थः । कि० कायः ।। धृष्टः निर्लज्जः ॥ १०॥ हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत् कल्पितं व्यालानां पशवस्तृणाङ्कुरभुजः सृष्टाः स्थलीशायिनः । संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां यामन्वेषयतां प्रयान्ति सततं सर्व समाप्ति गुणाः ॥११॥ व्यालानां सर्पाणां धात्रा विधात्रा अशनं भोजनं मरुत् पवनः कल्पितम् । किं अशनम् ? । हिंसाशून्यं हिंसारहितम् । पुनः किं० अशनं । अयत्नल सुलभम् । तथा पशवः १ ज. दीनां। २ ख. ग. ज. गलत्रु। ३ घ. सहृदो। ४ ज. यस्योत्थानं । ५ख. दृष्टः। ६ ग. स्पृष्टाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188