________________
भर्तृहरिकृत-शतकत्रयम्
[३.९-११] दीनादीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा ___ कोशद्भिः क्षुधितैनरैन विधुरा दृश्येत चेद् गेहिनी । याआभङ्गभयेन गद्गदगलतंत्रुट्यद्विलीनाक्षरं
__को देहीति वदेत् स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥९॥ को मनखी पुमान् कोऽभिमानी पुरुषः स्वदग्धजठरस्यार्थे स्वकीयदुःपूरोदरपूरणाय इति वदेत् ? । इतीति किम् ? । देहि । कथं ? । यथा भवति गद्गदगलतत्रुट्यद्विलीनाक्षरं गद्गदगलन्ति च त्रुट्यन्ति च विलीनानि च विलयं गतानि अक्षराणि यत्र तत् गददगल
त्रुट्यद्विलीनाक्षरम् । केन ? । याच्याभङ्गभयेन याच्ञाया भङ्गः याच्जाभङ्गः तस्य भयं याच्याभङ्गभयम् तेन । अन्यच्च । चेद्यदि नरैर्मनुष्यैर्गेहिनी गृहिणी सदैव सर्वदैव क्षुधितैः शिशुकैः आकृष्टजीर्णाम्बरा सती विधुरा न दृश्येत व्याकुला न विलोक्येत । किं० शिशुकैः ? । कोशद्धिः रुदद्भिः । पुनः किं० शिशुकैः ? । दीनादीनमुखैः । दीनानि च अदीनानि च मुखानि येषां ते दीनादीनमुखास्तैः ॥ ९॥
निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः । शनैर्यद्युत्थानं घनतिमिररुद्धे च नयने
अहो धृष्टः कायस्तदपि मरणापायचकितः ॥ १० ॥ अहो इत्याश्चर्ये । अयं कायः अयं देहः तदपि मरणापायचकितः। तदपि किम् । निवृत्ता भोगेच्छा । चान्यत् । पुरुषबहुमानो विगलितः । अन्यच्च समानाः समानवयसः सुहृदो मित्राणि [ सपदि शीघ्र ] स्वर्याताः सुरलोकं प्रापुः । किं० सुहृदः ? । जीवितसमाः प्राणतुल्याः।यदि चेत् शनैरुत्थानं अर्थादुपवि(वे)शनं च । चान्यत् । नयने घनतिमिररुद्धे जाते। तथाप्ययं कायः मरणाद् बिभेति मरणं नेच्छतीत्यर्थः । कि० कायः ।। धृष्टः निर्लज्जः ॥ १०॥
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत् कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजः सृष्टाः स्थलीशायिनः । संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
यामन्वेषयतां प्रयान्ति सततं सर्व समाप्ति गुणाः ॥११॥ व्यालानां सर्पाणां धात्रा विधात्रा अशनं भोजनं मरुत् पवनः कल्पितम् । किं अशनम् ? । हिंसाशून्यं हिंसारहितम् । पुनः किं० अशनं । अयत्नल सुलभम् । तथा पशवः
१ ज. दीनां। २ ख. ग. ज. गलत्रु। ३ घ. सहृदो। ४ ज. यस्योत्थानं । ५ख. दृष्टः। ६ ग. स्पृष्टाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org