________________
[३.७-८]
वैराग्यशतकम् हे आशे हे तृष्णे ! त्वं मोघासि निष्फला वर्तसे । अतो मां अपरं किं नञ्जयसि किं नर्तनं कारयसि ? । कथम् ? । खलोल्लापाः दुर्जनकठोरशब्दाः सोढाः अनुभूताः। कैः ।। कथमपि महता कष्टेन तदाराधनपरैः । अपि पुनः शून्येन मनसा हसितं दन्तनिष्कासनं (हं. 'चनं) कृतम् । किं कृत्वा ? । अन्तर्मानसे बाष्पं अश्रुपातं निगृह्य धृत्वा । [अपि पुनः] चिचस्तम्भः कृतः शून्यमानसं विदधे । अपि पुनः प्रतिहतधियां गतबुद्धीनां पुरस्तात् अञ्जलिः कृतः। एवं सत्यपि हे आशे! न कृतार्था असि ॥ ६॥
खादिष्ठं मधुनो घृतादिरसवद् यत् प्रस्रवत्यक्षरं
देवी वागमृतात्मनो रसवतस्तेनैव तृप्ता वयम् । कुक्षौ यावदमी भवन्ति धृतये भिक्षाहृताः सक्तवः ____तावद् दास्यकृतार्जनैर्न हि धनै गान् समीहामहे ॥ ७॥ वयं दास्यकृतार्जनैर्धनैः हि निश्चितम् भोगान् न समीहामहे न वाञ्छामहे । दाम्यत्वेन कृतमर्जनं समुपार्जितं (हं. पार्जनं) येषां धनानां "तानि दास्यकृतार्जनानि तैः । यावदमी मिक्षाहताः सक्तवः कुक्षौ धृतये भवन्ति संतोषाय स्युः । या देवी वाक् अमृतात्मनः कवीश्वरस्य अक्षरं प्रस्रवति (हं. प्रप्लवति ) प्रसूते तेनैव अक्षरेण वयं तृप्ताः संतुष्टाः । कथंभूतमक्षरम् ? । मधुनोऽपि स्वादिष्ठम् । किंवत् ? । घृतादिरसवत् यथा घृतादिरसः । आदिशब्दात् क्षीरखण्डघृतानीव । किं० अमृतात्मनः कवीश्वरस्य ? । रसवतः नवरसमयस्य ॥ ७ ॥ अथ प्रमादमुद्दिश्याह
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं ___ व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्मजरावियोगैमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ८॥ इदं जगत् उन्मत्तभूतं वर्तते । किं कृत्वा ? । मोहमयीं प्रमादमदिरां पीत्वा । कथम् । अहरहः दिनं दिनं प्रति आदित्यस्य गतागतैर्जीवितं संक्षीयते आयुस्त्रुट्यति । बहुकार्यभारगुरुभिर्व्यापारैः कालो न विज्ञायते । चान्यत् । जन्मजरावियोगमरणं दृष्ट्वा त्रासो नोत्पद्यते । जन्म च जरा च वियोगश्च मरणं च जन्मजरावियोगमरणम् । अतः कारणात् प्रमादस्तु मदिरा प्रोच्यते । यथा मदिरापानी (श्यी) हालां पीत्वा चेतनां न धत्ते । जीवितं संक्षीयमाणं (छ. संक्षीयते मानं) नावगच्छति । अन्यच्च यान्तं कालं न जानाति । अन्यच्च त्रासो न समुत्पद्यते । तथा अयमपि प्रमादमदिरोन्मत्तो जीवो व्यतीयमानं जीवितं न वेत्ति वजन्तं कालमपि नाभिजानाति । मरणादिभ्यस्त्रासोऽपि न भवति ॥ ८॥
१ ग. च. प्रप्लव। २ ख. घ. यौवनं। ३ ख. ग. घ. विपत्ति । ४ज. वासस्तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org