________________
[३. १२-१४]
वैराग्यशतकम् तणाकुरभुजः बालतृणपल्लवभोजिनः सृष्टाः निष्पादिताः। किं० पशवः ? । स्थलीशायिनः । धात्रा विधात्रा नृणां मनुष्याणां वृत्तिः सा काचिदनिष्टा कृता । यां वृत्तिं सततं निरन्तरं अन्वेषयतां सर्वे गुणाः समाप्तिं यान्ति निष्ठि[त]तां यान्ति । किं० नृणां ? । संसारार्णवलङ्घनक्षमधियां संसारसमुद्रतरणसमर्थबुद्धीनाम् ॥ ११ ॥
न ध्यातं पदमीश्वरस्य विधिवत् संसारविच्छित्तये __ स्वर्गद्वारकवाटपाटनपटुधर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ १२ ॥ वयं एव निश्चयेन केवलं [मातुः ] यौवनवनच्छेदे कुठाराः जाताः स्मः । कथम् ।। यत् ईश्वरस्य पदं परमानन्दस्वरूपं शुक्लध्यानं [विधिवत् ] न ध्यातम् । किमर्थम् ? । संसारविच्छित्तये संसारनिस्ताराय । अन्यच्च धर्मोऽपि नोपार्जितः । [किं० धर्मः ? । खर्गद्वारकवाटपाटनपटुः । ] तथा च नारीपीनपयोधरोरुयुगलं स्वमेऽपि नालिङ्गितम् । अतः कारणात् मातुस्तारुण्यवनच्छेदे वयं शुद्धाः कुठाराः ॥ १२ ॥
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः। कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥१३॥
अस्माभिर्भोगा न भुक्ताः। वयमेव भुक्ताः । अस्माभिस्तपो न तप्तम् । तदा वयमेव तप्ताः नारकिकैः संतापिताः । कालो न यातः । वयमेव याताः प्रधनमा याताः । इयं तृष्णा कदाचिदपि न जीर्णा । वयमेव जीर्णाः ॥ १३ ॥ आत्मनो निरास(श)पदमाहक्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहानश नियमतः प्राणैर्न शंभोः पदं
तत् तत् कर्म कृतं तदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः॥१४॥ अस्माभिः मुनिभिः तदेव तत्तत्कर्म कृतम् । तैस्तैः फलैर्वश्चिताः सः । यत् यस्मात्कारणात् क्षमया न क्षान्तम् । अन्यच्च । गृहोचितसुखं न त्यक्तम् । कस्मात् ? । संतोषतः । तथा दुःसहशीतवाततपनाः न सोढाः तपो न तप्तं च । अन्यच्च अहर्निशं
१ ख. च. पटुंध.। २ ग. जुगलं; ज. 'युगुलं। ३ग. मातः। ४ ख. वने दे। ५ख. °तपनात्, ग. तवना; च. पवनात् । ६ ज. क्लेशान्न । ७ख. घ. छ. चित्तम् । ८ ख. ज. नियमितः। ९ख. घ. यदेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org