________________
भर्तृहरिकृत शतकत्रयम्
[३. १५-१७] नियमतः निश्चयतः प्राणैः वित्तं ध्यातं न शंभोः पदम् । अत एव प्राणिभिः तत्कर्म कृतं, येन कर्मणा तैस्तैः फलैर्वञ्चिताः ॥ १४ ॥
वैलिभिर्मुखमाकान्तं पलितैरङ्कितं शिरः। गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ १५ ॥
मुखं वलिभिराकान्तं पलितैः शिरः अङ्कितम् । गात्राणि शिथिलायन्ते । एका दुराशया तृष्णा तरुणायते ॥ १५ ॥
अथानित्यतामाह
येनैवाम्बरखण्डेन संवीतो निशि चन्द्रमाः। तेनैव च दिवा भानुरहो दौर्गत्यमेतयोः ॥ १६ ॥
निशि रात्रौ येनैव अम्बरखण्डेन चन्द्रमाः संवीतो गतः । च अन्यत् । तेनैव अम्बरखण्डेन दिवा वासरे भानुः सूर्यः संवीतः गतः । अहो इति दुःखे । एतयोः सूर्यचन्द्रमसोः दौर्गत्यं विलोक्यताम् ॥ १६ ॥ अथ विषयविरक्ततामाह
अवश्यं यातारश्चिरतरमुषित्वापि विषेया
वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् । व्रजन्तः स्वातंत्र्यादतुलपरितापाय मनसः
खयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १७ ॥ एते विषयाः पञ्चाङ्गभोगलक्षणाः अवश्यं निश्चितं यातारः गमिष्यन्ति । किं कृत्वा । चिरतरं चिरकालं उषित्वापि स्थित्वापि । जनो लोकः यत् अमृन् विषयान् स्वयं न त्यजति तद्वियोगे को भेदः किमाधिक्यम् ? । एते विषयाः स्वातंत्र्यात् [स्वाधीनात् आत्मवशात् ] व्रजन्तः गच्छन्तः मनसः आत्मनः अतुलपरितापाय भवन्ति प्रबलदुःखाय स्युः । हि निश्चितम् । एते स्वयं त्यक्ताः सन्तः अनन्तं शमसुखं उपशमशर्म (खं. च. शमसुखं) विदधति । अतः कारणात् एते विषयाः स्वयं त्यक्ता मोक्षमु( ? स्यो)त्पादका इत्यर्थः ॥ १७ ॥ अथ तृष्णामधिकृत्याहविवेकव्याकोशे विदधति शमे शाम्यति तृषा
परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणतिः। . १ 'वलीभिः' इत्यपि मातृकासु। २ ख. घ. विषयान् । ३ ज. त्यक्त्वा। ४ ख. घ. विवेके। ५ ख. घ. विकसति च. विकशति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org