________________
८
[३. १८-२०]
वैराग्यशतकम् . .. जराजीणैश्वर्यग्रसनगहनाक्षेपकृपणः
कृपापात्रं यस्यां भवति मरुतामप्यधिपतिः ॥ १८ ॥ तृषा तृष्णा शमे उपशमे सति शाम्यति उपशमं गच्छति । क सति ? विवेकव्याकोशे [विवेकस्य ] विकाशे विदधति सति । सा परिणतिः तृष्णापरिणामः तुङ्गे परिष्वङ्गे आश्लेषे सति [प्रसरतितरां] तरां (? नितरां) प्रसरति । युक्तोऽयमर्थः-अपरापि या विलासिनी भवति सा तुङ्गे परिष्वङ्गे सति तरां ( ? नितरां ) प्रसरति । न तु व्याप्तिं भजते । लब्धावकाशत्वात् । तथा सा तृष्णापि । मरुतां देवानामप्यधिपतिः इन्द्रः यस्यां तृष्णायां कृपापात्रं भवति । तुङ्गे परिष्वङ्गे छेत्तुं अशक्तो भवतीत्यर्थः । मनुजानां तु का कथा ? । किंविशिष्टो मरुतामधिपतिः ? । जराजीणेश्वर्यग्रसनगहनाक्षेपकृपणः जरसा जीर्णमैश्वर्यं जराजीणैश्वर्यं तस्य ग्रसनेन यद् गहनं जराजीणेश्वर्यग्रसनगहनं तस्य आक्षेपे कृपणः विध्वंसे असमर्थः । अतः कारणात् तृष्णा गरीयसी ॥ १८ ॥ मदनविडम्बनामाहकृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूतिक्लिन्नः कृमिकुलशतैरावृततनुः । क्षुधाक्षामो जीर्णः पिठेरजकपालार्पितगलः
शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ १९ ॥ श्वा कुर्कुरः शुनीमन्वेति । किं० श्वा ? । कृशो दुर्बलः काण एकदृक् खञ्जो भमपादः श्रवणरहितः छिन्नकर्णः पुच्छविकलो लांगूलरहितः । व्रणी पिटकव्याप्तः स्फोटकव्याप्तः । पूतिक्लिन्नः पिरु (ख. पिरू) परण्टितः । पुनरपि किं० श्वा ? । कृमिकुलशतैरावृततनुः । पुनः किं० श्वा ? । क्षुधाक्षामः । पुनः किं० श्वा ? । जीर्णः जरसाक्रान्तः । पुनः किं० श्वा है । पिठरजकपालार्पितगलः करण्डमुण्डसमर्पितमुखः । एवंविधो मर्तुकामोऽपि श्वा शुनीमन्वेति अनुसरति । तदपि मदन एव निश्चयेन हतमपि हन्ति ॥ १९॥ विषयाणां धिक्कारमाह
भिक्षाशनं तदपि नीरसमेकवारं __ शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं च जीर्णशतखण्डमयी च कन्था
हा हा तथापि विषया न परित्यजन्ति ॥ २० ॥ हा हा इति खेदे । विषयास्तथापि न परित्यजन्ति केटकं ( समीपं ) न मुञ्चन्ति । तथापि किम् ? । भिक्षीशनं तदपि नीरसं रसरहितं । तदप्यशनं एकवारम् । चान्यत् । शय्या
१ ज. क्षपणः। २ ख. छ. पिठरक । ३ ख. च. भिक्षासनं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org