SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मदहन भर्तृहरिकृत शतकत्रयम् [ ३.२१-२२] भूः । अन्यच्च परिजनो निजदेहमात्रम् । चान्यत् वस्त्रं शतखण्डमयी कन्था । तथापि विषयाः दुराशयाः [ विषोपमा ] विगोपयन्ति प्राणिनाम् उद्दका ( ? ) ॥ २० ॥ रूपतिरस्कारमाहस्तनौ मांसग्रन्थी कनककलशावित्युपमितौ मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं अहो निन्द्यं रूपं कैविजनविशेषैर्गुरु कृतम् ॥ २१ ॥ अहो इति दुःखे । रूपं निन्द्यम् । कविजनविशेषैः गुरु कृतम् । स्तनौ मांसग्रन्थी परमित्युपमितौ उपमानितौ । इतीति किम् ? । कनककलशौ। चान्यत् मुखं श्लेष्मागारं तदपि शशाङ्केन तुलितम् चन्द्रमसा समानं कृतम् । जघनं श्र(स)वन्मूत्रक्लिन्नं तथापि करिवरकरस्पर्धि गजेन्द्रशुण्डादण्डेन स्पर्धाकृत् स्पर्धाकारकम् । रूपस्येति स्वरूपम् । परं तु कविना व्यावर्णितम् ॥ २१॥ . अजानन् माहात्म्यं पैंततु शलभस्तीवेदहने ___ स मीनोऽप्यज्ञानाद् बँडिशयुतमश्नातु पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिलान् न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ २२ ॥ अहह इति खेदे । मोहमहिमा गहनो वर्तते । यत्तु शलभः पतङ्गः दीपशिखायां पततु ।शलभः किं कुर्वन् ? । माहात्म्यमजानन् । अन्यच्च स मीनो मत्स्यः अज्ञानान्मौढ्यात् (छ. मौढ्यतः) बडिशयुतं पिशितं मांसं अश्नातु भक्षतु । इह अस्मिन् संसारे एते वयं विजानन्तोऽपि कामान्न मुञ्चामः । किं० कामान् ? । विपज्जालजटिलान् विपदां जालः विपज्जालस्तेन जटिला विपज्जालजटिलास्तान् विपज्जालजटिलान् । अत एव मोहमहिमा गहनो गरीयान् (हं० गरीयसी) ॥ २२ ॥ अथ दुर्जनमुद्दिश्याहबिशमलमशनाय स्वादुपानाय तोय शयनमवनिपृष्ठे वल्कले वाससी च । १ ख. छ. श्रवन्मू । २. ज. °कट । ३. ख. घ. कुकविविकल्पै; ज. कविवरविशेषैर् । ४ख. घ. छ. पतति। ५ ख. घ. तत्र। ६.घ.मीनोपज्ञानाद: च. शानाद् । ७ हं. विडश। ८ ख. घ. छ. अश्नाति । ९ख. विसमले; ग. छ. विशमल°; ग. ज. विषमल । १० हं. छ. पृष्ठं (टीकायामपि)। ११ हं. वल्कली वाससे, ख. घ. ' वाससी वल्कले। मीनोपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy