________________
[३. २३-२५]
वैराग्यशतकम् नवधनमधुपानभ्रान्तसर्वेन्द्रियाणां
___ अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ २३ ॥ वयं दुर्जनानां पिशुनानां अविनयमनुमन्तुं अङ्गीकर्तुं नोत्सहे नोत्साहं कुर्महे । कथंभूतानां दुर्जनानां ? । नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम् नवं नवीनोपार्जितं धनं नवधनं तदेव मधुपानं मदिरापानं तेन मधुपानेन प्रान्तानि सर्वाणि इन्द्रियाणि येषां ते नवधनमधुपानभ्रान्तसर्वेन्द्रियास्तेषाम् । अलं अत्यर्थम् । अशनाय भोजनाय बिशं कमलिनीकन्दं वरम् । चान्यत् । खादुपानाय तोयं वरम् । चान्यत् । अवनिपृष्ठशयनम् । चान्यत् । वाससे(सी) वल्कली (ले) वल्कलचीवरं वरम् ॥ २३ ॥ अथ मानिनामुद्दिश्याहविपुलहदयैर्धन्यैः कैश्विजगजनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दशभुञ्जते
कतिपयपुरेखाम्ये पुंसां क एष मदज्वरः ॥ २४ ॥ पुंसां पुरुषाणां क एष मदज्वरः । क सति ? । कतिपयपुरस्वाम्ये सति । धन्यैः कैश्चित पुरा पूर्व जगजनितं जगत् सृष्टम् । किं० धन्यैः? । विपुलहृदयैः बृहच्चेतोभिः । अपरैः कैश्चिदपि विधृतं निजभुजाभ्यां धारितम् । अन्यैः कैश्चिदपि पुरुषैः चान्यत् दत्तम् । किं कृत्वा ? । विजित्य । यथाशब्द इवार्थे वर्तते । जगत् कमिव ? । तृणम् इव । यथा तृणमनायासेन दीयते तथा जगद्विजित्य दत्तम् । हि निश्चितम् । इह अस्मिञ्जीवलोके । अन्ये धीराश्चतुर्दश भुवनानि भुञ्जन्ते (ते) । तदा स्वल्पस्वाम्ये कोऽयं गर्वः ॥ २४ ॥
अथ निःस्पृहाणामधिकारमाहत्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ___ ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः। . इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
- यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥२५॥ हे नरेन्द्र ! त्वं राजा वर्तसे । वयमपि उपासितगुरुप्रज्ञाभिमानोनताः वर्तामहे । हे राजेन्द्र ! त्वं विभवैः ख्यातः । नो अस्माकं यशांसि महत्त्वानि कवयः कवीश्वराः दिक्षु प्रतन्वन्ति दशस्वपि दिशासु विस्तारयन्ति । हे मानद ! मानं ददातीति मानदः । वा 'दोऽवखण्डने' धातुः । दौ संध्यक्षराणामकारस्य विकरणे दोनइ दा । हे मानद मानखण्डन ! आव
१ घ. नृणां। २ है. छ. ज. पुरः वाम्ये । १२ शतकत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org