________________
भर्तृहरिकृत-शतकत्रयम्
[२.५६-५८] ये कुधियः ये कुबुद्धयः मकरध्वजस्य राज्ञः परमां प्रकृष्टां स्त्रीमुद्रां विहाय परित्यज्य । स्वर्गादिलोभेच्छया यान्ति व्रजन्ति । किं० स्त्रीमुद्राम् ? । सर्वार्थसंपत्करी कीम् । किं० ? । ते मूढाः मूर्खाः । ते कुधियः । तेनैव कन्दर्पण नग्नीकृताः मुण्डिताः । केचित् पञ्चशिखीकृताः पञ्चशिखतापसीकृताः । चान्यत् जटिलाः जटाधारिणः । चान्यत् अपरे कापालिकाः भरट्टकाः [हं. भट्टारकाः ] । कृत्वा कृत्वा विगोपिताः। किं कृत्वा ? । निर्दयतरं निहत्य कुट्टयित्वा ॥ ५५ ॥
पुनस्तदेवाहविस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशमन भवाम्बुराशौ। येनाविशत्तदधरामिषलोलमर्त्यमत्स्यान्विकृष्य स पचत्यनुरागवह्नौ ॥५६॥
मकरकेतनधीवरेण अत्र अस्मिन् भवाम्बुराशौ संसारसमुद्रे स्त्रीसंज्ञितं [स्त्री] नामाभिधानं बडिशं मत्स्यबंधनं विस्तारितम् । येन कारणेन (क. छ. उच्चरत् ) तदधरामिषलोलमर्त्यमत्यान् विकृष्य जलात् निष्कास्य अनुरागवह्नौ (ख.+स.) पचति संस्कारं करोति ॥ ५६ ॥
अङ्गनानां कृत्यमाह- . उन्मत्तप्रेमसंरम्भादारम्भन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः॥ ५७ ॥
अङ्गना नार्यो यदारम्भन्ते । कस्मात् ? । उन्मत्तप्रेमसंरम्भात् । उन्मत्तश्चासौ प्रेमः [मा ] उन्मत्तप्रेमः [ मा ] तस्य संरम्भः उन्मत्तप्रेमसंरम्भस्तस्मात् उन्मत्तप्रेमसंरम्भात् । तत्र प्रत्यूहमाधातुं विघ्नं कर्तुम् । खलु निश्चितम् । ब्रह्मापि कातरः कर्तुमशक्तः । एतावता यदङ्गनाभिर्भवति तत्ताभिरेव नापरेण ॥ ५७ ॥
मृगीदृशां प्रेमस्वरूपमाह- . प्रणयमधुरप्रेमोद्गारा रेसादलसास्तथा
भणितमधुरा मुग्धप्रायाः प्रकाशितसमदाः। प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ ५८ ।। मृगीदृशां नायिकानां स्वैरालापाः रहसि एकान्ते किमपि हरन्ति तद्वक्तुं न शक्यते । किं० स्वैरालापाः ? । प्रणयमधुरप्रेमोद्गाराः प्रणयेन स्नेहेन मधुराः प्रणयमधुराः एवंविधाः प्रेमोद्गाराः । पुनः कथंभूताः स्वैरालापाः ? । रसात् कामरसात् अलसाः मन्थराः । पुनः किं०
१ क. (शोधनादनन्तरं) छ. येनोच्चरत्त; ख. घ. येनाचिरात्त । २ ग. छ. आरभंते) घ. आरंमेते । ३ घ. दैवोपि । घ. पद्यं नास्ति । ४ ख. ज. मधुराः। ५ग. रसातलस्तथा । ६ ग. मुग्धाप्रायाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org