SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [२. ५९-६१ ] शृङ्गारशतकम् ६३ स्वैरालापाः ? । भणितमधुराः भणितं मधुरं यैः ते भणितमधुराः । पुनः किं० खैरालापाः ? । मुग्धायाः प्रायेण मुग्धा मनोज्ञाः मुग्धप्रायाः । पुनः किं० स्वैरालापाः ? | प्रकाशितसंमदाः । प्रकाशितः संमदो हर्षो यैः ते प्रकाशितसंमदाः । पुनः किं० स्वै० : । प्रकृतिसुभगाः । प्रकृत्या सुभगाः प्रकृतिसुभगाः सौभाग्योल्लासिनः । पुनः किं० स्वैरालापाः ? । विश्रम्भार्हाः विश्वासयोग्याः । पुनः किं० स्वैरालापाः० ? । स्मरोदयदायिनः । स्मरस्य कामस्य उदयं ददतीति स्मरोदयदायिनः । अत एव मृगीदृशां वचांसि व्यामोहकानि भवन्ति ॥ ५८ ॥ अथ मनोभीष्टमाह मालती शिरसि जृम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलम् । वक्षसि प्रियतमा मैदालसा स्वर्ग एष परिशिष्ट आगतः ॥ ५९ ॥ प्राणिनां एष परिशिष्टः प्रशस्तः स्वर्गः आगतः । एष कः? । शिरसि मस्तके मालती जृम्भणोन्मुखी मघमघायमाना । एकस्त्वयं स्वर्गः । अन्यच्च वपुषि शरीरे चन्दनं कुङ्कुमाविलं कुङ्कुममिश्रितम् । वक्षसि हृदये मदालसा प्रियतमा मदनतारुण्यदर्पेण असा । पक्षे मदालसा देवी । अयमेव स्वर्गः ॥ ५९ ॥ 1 पुनरेनमेवार्थमाह कुङ्कुमपङ्ककलङ्कितदेह गौरपयोधरकम्पितहौरा । नूपुरहंसरणत्पदपद्मा कं न वशं कुरुते भुवि रामा ॥ ६० ॥ रामा नारी । भुवि पृथिव्यां कं कं वशं न कुरुते ? । अपि तु सर्वमपि । किं० रामा ? | कुङ्कुमपङ्ककलङ्कितदेहा । कुङ्कुमस्य पङ्केन कलङ्कितो लिप्तो देहो यस्याः सा० । पुनः किं० रामा ? । गौरपयोधरकम्पितहारा । गौरौ यौ पयोधरौ ताभ्यां कम्पितो हारो यस्याः सा० । पुनः किं० रामा ? । नूपुरहंसरणत्पदपद्मा । नूपुरेण हंसवद् रणन्तौ शब्दं कुर्वन्तौ पदपद्मौ यस्याः सा० । एवंविधा नितम्बिनी कं कं वशं न कुरुते ? । अपि तु जगदपि ॥ ६० ॥ अधुना कामिनीनामतिशयाधिक्यमाह नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीनाम् । याभिर्विलोलतरतारकदृष्टिपातै रुद्रोऽपि विजित अबलाः कथं ताः ॥ ६१ ॥ १ घ. कोशे पद्यमिंदं नास्ति । हं. ख. मदालसाः । २ घ. कोशे पद्यमिदं नास्ति । हैं. 'देहाः । ३ हं. हाराः ४ घ. कोरो मूलं नास्ति । टीकामात्रमस्ति ॥ च. छ. ज. शक्रा । ५ ख. ग. 'जितास्त्वबलाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy