________________
६४
भर्तृहरिकृत-शतकत्रयम्
[२.६२-६३] - हि निश्चितम् । ते कविवराः नूनं विपरीतबोधाः । पराङ्मुखतत्त्वज्ञानिनः । यत्ते कविवराः नित्यं निरन्तरं कामिनीनां नारीणां अबला इत्याहुः । ता अबलाः कथम् ? । याभिः विलोलतरतारकदृष्टिपातै रुद्रादयोपि विजिताः जिताः । महेशादयोऽपि हतविप्रहताश्चक्रिरे। विलोलतरा अत्यन्तं तारकदृष्टिपाताः विलोलतरतारकदृष्टिपातास्तैः ॥ ६१ ॥
कविस्तमेवोद्दिश्याहउद्धृत्तस्तनभार एष तरले नेत्रे चले भूलते
रेकाधिक्यतमोष्ठपल्लवदलं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरपत्रिकेव लिखिता पुष्पायुधेन स्वयं ___मध्यस्था हि करोति तापमधिकं रोमावली केन सा ॥ ६२ ॥
सा रोमावली केन कारणेन अधिकं तापं करोति ? । किं० रोमावली ? मध्यस्था। ननु यः कोऽपि मध्यस्थो भवति स कस्यापि तापं कुरुते ? । अपि तु न । इयं रोमावली नायिकायाः मध्यस्थापि तापं कुरुते इति दुःखं महत् । या रोमावली पुष्पायुधेन कामेन स्वयं स्वहस्तेन सौभाग्याक्षरपतिका इव लिखिता । सौभाग्यस्य अक्षराणि सौभाग्याक्षराणि, सौभाग्याक्षराणां पतिका इव पङ्क्तिका ननु या सौभाग्याक्षराणां पतिका उच्यते, तस्याः परेषां पीडा न युज्यते इति भावः। नाम इति संबोधने । एते पदार्था उच्यमानास्तापं कुर्वन्तु । एते के ? । य एष उद्धृत्तस्तनभारस्तापं करोतु । कथम् ? । उद्धृत्तः कोऽर्थः । उत् उन्नतं वृत्तं यस्य स उद्धृत्तः [आचारः तेन युक्तः स्तनभार उद्धृत्तस्तनभारः] । पुनः किं० १ । नेत्रे तरले । ताभ्यां तापोऽपि युक्तः । ये ननु तरला भवन्ति चञ्चलाः स्युः । तेभ्योपि तापमुद्वहते जनः । पुनः किं० । चले भूलते। युक्तस्ततोऽपि तापः । कथम् । ते चले तस्मात् । पुनः किं० १ । रेका [क. च. रैका, ग. एका; ख. घ. ट. ऐका ] धिक्यतमोष्ठपल्लवदलं । रेकेण (ख. घ. एकेन ) रागेण आधिक्यतमः योऽसौ उ[ओ]ष्ठस्य (ख. ट. आधिक्यतमं यदोष्ठ ) पल्लवदलं तापं करोतु । तदपि युक्तम् । योऽसौ रागाधिकः स तापं तनुते । यतो रागो हि कारणं अनर्थपरंपरायाः। एते चत्वारोऽपि तापं कुर्वन्ति तदा कुर्वन्तु । इयं रोमावली सरला (क. तरला; च. छ. सरला तरला ) मनोहरा सौभाग्याधिका तस्याः तु न. युक्तम् ॥ शार्दूलविक्रीडितं छन्दः । श्लेषालंकारः ॥ ६२ ॥
अथ युवतीगुणानाहखपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीम् । तेस्मात् तपसोऽपि फलं वर्गः खर्गेऽपि युवतयः सरसाः॥ ६३ ॥
१ग. रागाधिष्ठित घ. एकाधिक्यत। २ ज. मध्यस्थापि। ३ क. छ. निन्दते ।' ४ ग. युवतिम् । ५ ख. घ. कस्मात् । ६ है. सरसाः युवतयः; ज. 'तयोप्सरसः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org