________________
[२.६४-६६]
शृङ्गारशतकम् [असौ पण्डितः स्वपरप्रतारकः स्वं आत्मानं परं अन्यं प्रतारयतीति स्वपरप्रतारकः, योऽलीकपण्डितः युवतीं निन्दति । यस्मात्कारणात् तपसोऽपि फलं. वर्गः खर्गेऽपि सरसाः युवतयः।] तत् तस्मात् कारणात् सरसा युवतयः सलावण्यनार्यः पूर्वतपसैव प्राप्यन्ते । नान्यथा ॥ ६३ ॥
कस्या अपि वियुक्तायाः स्वरूपमाहविश्रम्य विश्रम्य वैनगुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण कैरोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ ६४ ॥
काचिद् वियुक्ता नायिका वन (हं. क. छ. नव; च. ट. छाया) दुमाणां गृहोपवनवृक्षाणां छायासु विश्रम्य विश्रम्य विचचार । किं० नायिका ? । तन्वी कुमारी । किं कुर्वती । स्तनोंतरीयेण वस्त्रेण शशिनो मयुखान् चन्द्रमःकिरणान् निवारयन्ती । किं० स्तनोत्तरीयेण ? करोद्वदु]तेन दक्षिणकरचालितेन ।। ६४॥
अथ कामिनः स्वरूपमाहअदर्शने दर्शनमात्रकामा दृष्टौ परिष्वङ्गरसैकलोला ।
आलिङ्गितायों पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥ ६५ ॥
सा काचिन्मनोहरा नायिका अदर्शने सति दर्शनमात्रकामा वर्तते। विलोकनावसानमनोरथा वर्तते । सा नायिका दृष्टौ सत्यां परिष्वङ्गरसैकलोला वर्तते । आयताक्ष्यां विस्तीर्णनेत्रायां आलिङ्गितायां परस्परं विग्रहयोः शरीरयोः अभेदमाशास्महे आशां कुर्महे ॥ ६५ ॥
पुनर्विलासिनीनां स्वरूपमाहउपरि निपतितानां श्रस्तधम्मिल्लकानां
मुकुलितनयनानां किंचिदुन्मीलितानाम् । उपरि सुरतखेदेखिन्नगल्लस्थलीना
मधरमधु वधूनां पुण्यवन्तः पिबन्ति ॥ ६६ ॥ वधूनां नायिकानां अधरमधु पुण्यवन्तः पिबन्ति । किं० वधूनाम् ? । उपरि निपतितानाम् । पुनः किं० वधूनाम् । श्रस्तधम्मिल्लकानाम् । पुनः किं० वधूनाम् ? । मुकुलितनयनानाम्। पुनः किं० वधूनाम् ।। किंचिदुन्मीलितानाम्। पुनः किं० वधूनाम् ? । सुरतजनित (क. व. च. छ. उपरिसुरतखेद [ख. खेदा ] ) खिन्नगल्ल (ख: गण्ड) स्थलीनाम् ॥६६॥
१ग. नवदु। २ ख. घ. सु काचिद्विचचार तन्वी । ३ सर्वत्र मातृकासु 'करोद्वतेन'। ४ ज. लोलाः। ५ हैं. लिंगितायाः...रायतायाः माशास्महे । ६ ग. च. नाशास्महे । ७.ग. ज.सस्त। ८ हं. ज. सुरतजनित । ९ ख. खेदात् खिन्न; घ. खेदाक्लिन्न । १० ग. घ. गण्ड।११ ख. घ. भाग्यवन्तः ।
९ शतकत्र० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org