________________
(२.५२-५५]
शृङ्गारशतकम् अथ कोकिलालापस्वरूपमाहमधुरयं मधुरैरपि कोकिलाकलकलैर्मलयस्य च वायुभिः । विरहितान् प्रणिहन्ति शरीरिणो विपदि हेन्त सुधापि विषायते ॥५२॥
अयं मधुर्वसन्तः विरहितान् विरहिणः शरीरिणः प्रणिहन्ति । कैः ? । कोकिलाकलकलैः। च अन्यत् । मलयस्य च वायुभिः । किं० कोकिलाकलकलैः ? । किं० मलयस्य वायुभिः ? । मधुरैरपि अतीव मिष्टैरपि । चेत् कोकिलाकलकलाः मलयस्य च वायवो मिष्टा वर्तन्ते । तदा जनाः नियन्ते कथम् ? । सत्यं परम् । हन्त इति खेदे । विपदि कष्टे सति सुधापि विषायते विषमिवाचरति ॥ ५२ ॥
तावन्महत्त्वं पाण्डित्यं विवेकत्वं कुलीनता। यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ ५३ ॥ सुगममिदम् ॥ ५३ ॥ अथ कन्दर्पाधिक्यमाहशंभुवयंभुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकर्मदासाः। वाचामगोचरचरित्रपवित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ ५४ ॥ तसै मकरध्वजाय कन्दर्पाय नमः। किं० मकरध्वजाय ? । भगवते अचिन्तितमहिमयुक्ताय। येन मकरध्वजेन शंभुवयंभुहरयः ब्रह्मविष्णुमहेश्वराः हरिणेक्षणानां मृगाक्षीणां सततं निरन्तरं गृहकर्मदासा अक्रियन्त । पुनः किं० । वाचामगोचरचरित्रपवित्रिताय वाचामगोचरेण वक्तुमशक्येन चरित्रेण पवित्रितः वाचामगोचरचरित्रपवित्रितः, तस्मै ॥ ५४ ॥
पुनरपि तस्यैव महिमानमाहस्त्रीमुद्रां मकरध्वजस्य परमां सर्वार्थसंपत्करी ___ ये मूढाः प्रविहाय यान्ति कुधियः स्वर्गादिलोभेच्छया । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित् पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ५५ ॥ १ ग. घ. विरहिणः। २ ग. छ. हन्ति। ३ ग. घ. कुलीनत्वं विवेकिता। ख. मातृकायां अयं श्लोकः 'तावदेवामृतमयी'ति श्लोकेन सह मिश्रितः। ४ च. हरिणीक्ष। ५ग. कुम्भ । ६ ग. कुसुमायुधाय । ७ ख. (शोधनात्पूर्वे) झषकेतनस्य नृपते; ज. कुसुमायु. धस्य परमा। ८ज. ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org