SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिकृत-शतकत्रयम् [२.४९-५१] निजवपुर्यच्छन्तीषु । जराजीर्णाखिलाङ्गाय च निजवपुर्यच्छन्तीषु । जराजीणं अखिलं अङ्गं यस्य स जराजीर्णाखिलाङ्गः, तस्मै जराजीर्णाखिलाङ्गाय । ग्रामीणाय पामराय निजं वपुर्यच्छन्तीषु । च अन्यत् । दुःकु(क)लाय पुरुषाय यच्छन्तीषु । गलित (गलत्) कुष्ठाभिभूताय निजमङ्गं यच्छन्तीषु । किं० वपुः ? । मनोहरम् । कया ? । लक्ष्मीलवस्पर्धया (श्रद्धया)। एवंविधासु पण्यस्त्रीषु कोऽधुना रज्येत ?। किं. पण्यस्त्रीषु ? । विवेककल्पलतिकाशस्त्रीषु विवेक एव कल्पलतिका विवेककल्पलतिका, तां प्रति शस्त्री विवेकल्पलतिकाशस्त्री, तासु विवेककल्पलतिकाशस्त्रीषु ॥ ४८ ॥ पुनरपि तस्या एव तिरस्कारमाहकश्चम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि । चारभेटचौरचेटकनटविटनिष्ठीवनशरावम् ॥ ४९ ॥ कः कुलजातः पुरुषः को वंशजातो वेश्याधरपल्लवं चुम्बति ? । अपि तु न कोऽपि । किं० वेश्याधरपल्लवम् ? । मनोज्ञ(हं. न्य-)मपि । धौतप्रक्षालितताम्बूलरञ्जितमपि । पुनरपि किं०१। चारभटचौरचेटकनटविटनिष्ठीवनशरावं चारभटाश्च नगारिणः, चौराः तस्कराः, चेटका दासाः मूल्यविक्रयगृहीताः, नटा भण्डाः, विटाः उत्तीर्णाः, तेषां निष्ठीवनस्य शरावस्तम् । एतादृशं वेश्याधरं कः कुलवान् चुम्बेत् ? । अपि तु न कोऽपि ॥ ४९ ॥ पुनस्तमेवार्थमाह वेश्यासौ मदनज्वाला रूपेन्धनसँमेधिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ ५० ॥ असौ वेश्या मदनज्वाला कामज्वाला वर्तते । किं० ज्वाला ? । रूपेन्धनसमेधिता। रूपमेवेन्धनं रूपेन्धनं, रूपेन्धनेन समेधिता संधुक्षिता (हं. संधूकिता) रूपेन्धनसमेधिता । चान्यत् । यत्र कामिभिः भुजंगिभिः यौवनानि चान्यत् धनानि हूयन्ते प्रज्वाल्यन्ते । पण्याङ्गनानामेतत्स्वरूपं विलोक्य को रज्येत ? । अपि तु न कोऽपि ॥ ५० ॥ .. एतत् कामफलं लोके येद् द्वयोरेकचित्तता। अन्यचित्तकृते कामे शवयोरिव संगमः ॥ ५१ ॥ लोके लोकमध्ये एतत्कामफलं यद् द्वयोः स्त्रीपुंसोरेकचित्तता चेतसि ऐक्यम् । कामे अन्यचित्ते कृते सति अन्योन्यरागरहिते संगमः संयोगः शवयोरिव मृतकयोरिव वर्तते ॥५१॥ १ह. मनोन्यमपि । २ ग. भट्ट। ३ क. ख. चोर । ग. भट। ४ख. समृद्धता।. ५ख. घ. छ. स्त्रीपुंसोरे'। ६ ग. अन्यचित्ते । ख. घ. अन्योन्यरागरहितः संगमः शवयोरिव। ७क. संगमे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy