________________
[२.४७-४८ ]
५९
अस्मिन् लोके अनर्थव्रजकुसुमवनं यौवनादन्यत् नहि अस्ति । अनर्थानां व्रजः समूहः तस्य कुसुमवनम् अनर्थव्रजकुसुमवनम् । किं० यौवनादन्यत् ? । रागस्यागारमेकम् । रागस्य एकं आगारं गृहम् । पुनः किं० यौवनम् ? | नरकशत महा दुःख संप्राप्तिहेतुः । नरकस्य शतानि यानि महादुःखानि तेषां या संप्राप्तिः तस्या हेतुः कारणम् । पुनरपि किं० यौवनम् ? | मोहस्योत्पत्तिबीजम् । पुनरपि किं० यौवनम् ? । ज्ञानताराधिपस्य ज्ञानचन्द्रस्य जलधरपटलं मेघवृन्दम् । पुनः किं० यौवनम् ? । कन्दर्पस्यैकमित्रम् | पुनरपि किं० यौवनम् ? । प्रकटितविविधस्पष्टदोषप्रबन्धम् । प्रकटिता विविधा ये स्पष्टदोषाः तेषां प्रबन्धं प्रकटितविविधस्पष्टदोषप्रबन्धं दोषाणां समूहमित्यर्थः । एतावता अनर्थस्य मूलं यौवनमेव ॥ ४६॥
अथ पञ्चाक्षरसस्वादमाह -
शृङ्गारशतकम्
द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घातव्येष्वपि किं तदास्यपवनः श्रव्येषु किं तद्वचः । किं स्वाद्येषु तदोष्ठपल्लवरसः स्पर्शेषु किं तैंत्तनुर्
ध्येयं किं नवयौवने सुहृदयैः सर्वत्र तद्विभ्रमः ॥ ४७ ॥
द्रष्टव्येषु पदार्थेषु किं उत्तमम् १ । मृगदृशो नायिकायाः मुखम् । किं० मुखम् ? | प्रेमप्रसन्नं स्नेहोल्लसितम् । घ्रातव्येष्वपि पदार्थेषु किमुत्तमम् । तदास्यपवनः तस्या नायिकाया आस्यस्य पवनः। श्र(श्रा)व्येषु [ श्रवणार्हेषु ] पदार्थेषु किमुत्तम् । तद्वचः तस्या वचः वचनम् । स्वाद्येषु [ स्वादनार्हेषु ] पदार्थेषु उत्तमं किम् ? । तदोष्ठपल्लवरसः तस्या ओष्ठपल्लवरसः । स्पर्शेषु पदार्थेषु किमुत्तमम् ? । तत्तनुः तस्याः शरीरम् | सहृदयैः [ पुरुषैः ] नवयौवने नवीनतारुण्ये सर्वत्र किं ध्येयम् ? । तद्विभ्रमः तासां विभ्रमः तद्विभ्रमः । पञ्चानामपीन्द्रियाणां पञ्चस्थानानि प्रोक्तानि तासां विभ्रमस्तु सर्वत्र ॥ ४७ ॥
अथ वाराङ्गना दोषानाह
जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुः कुलाय च गलत्कुष्ठाभिभूताय च । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवस्पर्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ४८ ॥
को विवेक पुमान् पण्यस्त्रीषु वाराङ्गनासु रज्येत स्नेहं कुर्वीत ? । अपि तु न कोऽपि । किं कुर्वतीषु । मनोहरं निजवपुः जात्यन्धाय यच्छन्तीषु ददतीषु । च अन्यत् । दुर्मुखाय
~
2
१ ज. दृष्टव्येषु । २ ख. घ. ज. श्राव्येषु । ३ ज. स्वादेषु । ४ ग. तद्वपुः । ५ ख. घ. किं ध्येयं । ६ हं. ग. च. सहृदयैः । ७ ख ग घ तद्विभ्रमः । ८ छ. दुःकलाय ।
९ ख.
ग. घ. श्रद्धया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org