________________
५८
भर्तृहरिकृत - शतकत्रयम्
अथ धन्यपुरुषस्य वर्णनमाह
शृङ्गारमनीरदे प्रसृमर क्रीडारसश्रोतसि प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति । तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि नै विक्रियां कलयति प्राप्ते नवे यौवने ॥ ४४ ॥
[ २. ४४-४६ ]
कोऽपि धन्यः पुमान् विक्रियां न कलयति विकारं न भजतीत्यर्थः । क ? | नवे यौवने प्राप्ते सति । किंविशिष्टे यौवने ? । शृङ्गारद्रुमनीरदे शृङ्गार एव द्रुमः शृङ्गारद्रुमः, शृङ्गारद्रुमस्य नीरदो मेघः शृङ्गारद्रुमनीरदः, तस्मिन् । पुनरपि किं० यौवने ? | प्रसृमरक्रीडारसश्रोतसि । कोऽर्थः ? । प्रसृमरः प्रसरणशीलः योऽसौ क्रीडारसः तस्य श्रोतः प्रवाहः प्रसृमरक्रीडारसश्रोतः, तस्मिन् । पुनः किं० यौवने ? | प्रद्युम्नप्रियबान्धवे । प्रद्युम्नस्य कामस्य प्रियो वल्लभो बान्धवः प्रद्युम्नप्रियबान्धवः, तस्मिन् । कन्दर्पवल्लभसहोदरे । पुनः किं० यौवने ? । चतुरतामुक्ताफलोदन्वति । चतुरता एव मुक्ताफलानि चतुरतामुक्ताफलानि । तेषामुदन्वान् समुद्रः चतुरतामुक्ताफलोदन्वान्, तस्मिन् चातुर्यमुक्तामणिसमुद्रे । पुनः किं० यौवने ? | तन्वीनेत्रचकोर पार्वणविधौ तन्व्या नेत्रचकोरौ तन्वीनेत्रचकोरौ, तन्वीनेत्र चकोरयोः पार्वणविधुः पूर्णि ( ख. पौर्ण ) मासीचन्द्रः । तस्मिन् । पुनः किं० यौवने ? | सौभाग्यलक्ष्मीनिधौ ( हं. विधौ ) सौभाग्यस्य लक्ष्म्याः निधिः सौभाग्यलक्ष्मीनिधिः; तस्मिन् । एवंविधे नवे यौवने प्राप्ते स एव विद्वान् यो विक्रियां न भजते ॥ ४४ ॥ अथ पुण्यशिष्या [क्षा ] माह कवि:
यथातुरः पथ्यमरोचमानं जिजीविषुर्भेषजमाददीत
तथा यियासुर्भुवि लोकयात्रां भुञ्जीत भोगानविषक्तचित्तः ॥ ४५ ॥
यथा आतुरः रोगी जिजीविषुः जीवितुमिच्छुः पथ्यमरोचमानं भेषजमौषधम् आददीत गृह्णीत । तथा तेन न्यायेन । भुवि पृथिव्यां लोकयात्रां मोक्षमार्ग यियासुः प्राणी गन्तुमुत्कण्ठितः प्राणी भोगान् अविषक्तः सन् नीरागचित्तः सन् भुञ्जीत । यथा च प्रोक्तम् " आसन्नकालभवसिद्धियस्स जीवस्स लक्खणं इणमो । विसयसुहेसु न रच्चइ सच्चत्थामेसु उज्जमइ" इति रहस्यम् ॥ ४५ ॥ - अथ यौवनस्य दोषानाह
रागस्यागारमेकं नरकशत महादुःखसंप्राप्तिहेतुर्
मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य । कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोष प्रबन्धं
लोकेऽस्मिन् नह्यनर्थव्रजकुसुमवनं यौवनादन्यदस्ति ॥ ४६ ॥
१ ज. स्त्रोतसि । २ घ. सौरभ्य' । ३ हं. न च क्रियां ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org