________________
[ २. ४१-४३ ]
शृङ्गारशतकम्
जोद्भासिनी । वक्रमेव अम्बुजं वक्राम्बुजं वक्राम्बुजमुद्भासयितुं शीलं अस्याः सा वक्राम्बुजोगासिनी । युक्तोऽयमर्थः । यत्र नदी भवति तत्राम्बुजानामुद्भास उत्पत्तिर्भवति । इयं कान्ता नदी वाम्बुजोद्भासिनी ॥ ४० ॥
अथ पञ्चेन्द्रियाणां चेष्टितमाह
इह हि मधुरगीतं रूपमेतद्रसोऽयं
स्फुरति परिमलो'ऽसौ स्पर्श एष स्तनानाम् । इति हृतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहित करणधूर्तेः पञ्चभिर्वञ्चितोऽसि ॥ ४१ ॥
हे आत्मन् ! | त्वं पञ्चभिरिन्द्रियैर्वञ्चितोऽसि । किं० इन्द्रियैः ? | स्वहितकरणधूर्तेः । स्वस्य हितं स्वहितम् । स्वहितकरणे धूर्तास्तैः स्वहितकरणधूर्तेः । पुनः किं० इन्द्रियैः ? । हृतपरमार्थैः । किं० त्वम् ? । इति अमुना प्रकारेण इन्द्रियैर्भ्राम्यमाणः भ्रान्ति प्राप्यमाणः । इत किम् ? । हि निश्चितम् । इह मधुरगीतं इति श्रवणयोर्हितम् । एतद्रूपमिति नेत्रयोर्हितम् । अहो अयं रसः कटुतिक्ता ( हं. क. ख. च. त्यक्ता ) म्लमधुरमिष्टक्षारलवण इति रसनाया हितम् । असौ परिमलः सुगन्धलक्षणः परिस्फुरतीति नासिकाया हितम् । एष सौकुमार्यः स्तनादीनां स्पर्श इति पञ्चभिरिन्द्रियैः स्वस्वहिताय वशीकृतोऽसि ॥ ४१ ॥
अथ स्त्रीभ्यः संसारनिस्तारे विषयवैषम्यतामाह
संसार तव पर्यन्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ ४२ ॥
रे संसार ! तव पर्यन्तपदवी तव निस्तारमार्गता न दवीयसी न दूरा । रे इति आक्षेवाक्ये । रे संसार ! यदि चेत् अन्तरा [ मध्ये ] मदिरेक्षणा नार्यो न स्युः । किं० मदिरेक्षणाः ? | दुस्तराः दुःखेन तीर्यन्ते इति दुस्तराः । एतावता यद्येता नितम्बिन्यो न भवन्ति तदा संसारतरणस्य का किं वदन्ती ! ॥ ४२ ॥
अथ मनसः शिक्षामाह
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा संचर मनःपान्थ यंत्रास्ते स्मरतस्करः ॥ ४३ ॥
हे मनःपान्थ ! कामिनीकाय कान्तारे मा संचर संक्रमणं मा कुरु । किं० कामिनीकायकान्तारे ? । कुचपर्वतदुर्गमे । कथम् ? । तत्र स्मरतस्करः आस्ते तिष्ठति ॥ ४३ ॥
१ ख. 'लोऽयं । २ घ. हतपरमा ।
८ शतकत्र०
Jain Education International
१९५७
३ क. ख. च. छ. तत्रास्ते ।
For Private & Personal Use Only
www.jainelibrary.org