________________
भर्तृहरिकृत - शतकत्रयम्
शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्मबोधोऽपि बाढ़ संसारेऽस्मिन् भवति विरलो भोजनं सद्गतीनाम् । येनैतस्मिन् निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ३९ ॥
अस्मिन् संसारे विरलो जनः सद्गतीनां भाजनं भवति । किं० जनः ? | शास्त्रज्ञोऽपि प्रगुणितनयोऽपि प्रगुणितः प्रगुणीकृतो नयो येन सः । वाढमात्मबोधोऽपि । आत्मानं बोधयतीत्यात्मबोधः । एवं सत्यपि सद्गतिभाग् भाग्यवानेव नापरः । तत्कथम् ? | येन कारणेन वामाक्षीणां वामनयनानां कुटिला भ्रूलता भवति । किं० भ्रूलता ? । उत्प्रेक्ष्यते - कुञ्चिका इव । कुञ्चिका किं कुर्वती ? | निरयनगर द्वारमुद्घाटयन्ती निरय एव नगरं निरयनगरं नरकपुरम् । तस्य द्वारमुद्घाटयितुं शीलं अस्याः सा० । युक्तोऽयमर्थः - अन्यापि या कुञ्चिका भवति सा द्वारमुद्घाटयति ननु । इयं नायिका कुञ्चिका नरकद्वारकपाटमुद्घाटयति ॥ ३९ ॥
अथ नारीनदीवैपम्यतामाह
५६
उन्मीलत्रिवलीतरङ्गवलया प्रोत्तुङ्गपीनस्तनद्वंद्वेनोद्यतचक्रवाक मिथुना वक्राम्बुजोद्भासिनी । कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते
संसारार्णवमज्जनं यदि ततो दूरेण संत्यज्यताम् ॥ ४० ॥
आत्मन् ! | यदि चेत् ते तव संसारार्णवमज्जनं संसारसमुद्रस्य ब्रुडनं ते तव न इष्यते न वाञ्छ्यते । ततः तदा त्वया इयं नदी दूरेण संत्यज्यतां दूरतः परिवर्ज्यताम् । किं० नदी ? | कान्ताकारधरा कान्तायाः वल्लभाया आकारं दधतीति ( क. विधर्तीति; हं. छ. दिध[ धरतीति ? ] ) कान्ताकारधरा । वा अथ वा कस्य पानीयस्य अन्ता कान्ता [ अन्तं कान्तं ] आकारं (क. छ. अकारं ) दधतीति ( क. विधर्तीति; हं. छ. दिधर्तीति ) कान्ताकारधरा । पुनः किं० नदी ? | अभितश्चतुर्दिशं सर्वैरपि प्रकारैः क्रूराशया दुष्टपरिणामा । पुनः किं० नदी ? | उन्मीलत्रिवली तरङ्गवलया उन्मीलन्त उल्लसन्तः त्रिवलीतरङ्गानां [णां ] वलया यस्यां सा० । युक्तोऽयमर्थः । यत्र नदी भवति तत्र तरङ्गवलयाः स्युः । या कान्ताकारघरा नदी वर्तते सापि त्रिवलीतरङ्गवल्या भवति ननु । पुनरपि किंविशिष्टा नदी : । प्रोत्तुङ्गपीनस्तनद्वंद्वेनोद्यतचक्रवाक - मिथुना । प्रोपीनस्तनद्वंद्वं प्रोतुङ्गपीनस्तनद्वंद्वम् । तेन प्रोत्तुङ्गपीनस्तनद्वंद्वेन उद्यतं उदयं प्राप्तं चक्रवाकमिथुनं यस्याः सा उद्यतचक्रवाकमिथुना । इदमपि युक्तम् । नद्यस्तु चक्रवाकमिथुना भवन्ति । इयमपि कान्तानदी पीनस्तनद्वंद्वेनोद्यतचक्रवाकमिथुना । पुनः किं० नदी ? | वक्राम्बु
१. ह्यात्म । २. ग. गाढं ।
Jain Education International
[ २. ३९-४० ]
३ क. भोजनं ।
४ ज. कुञ्चितेव । ५. मर्जनं ।
For Private & Personal Use Only
www.jainelibrary.org