________________
शकारशतकम्
[२. ३६-३८]
अथ नासामुक्ताफलकवर्णनमाहसुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ।
अनङ्गसंजीवनदृष्टिशक्तिः मुखामृतं ते पिबतीति चन्द्रः ॥ ३६ ॥
हे नायिके! । चन्द्रः ते तव मुखामृतमिति पिबति । केन ? । नासाग्रमुक्ताफलकच्छलेन नासाया अयं नासाग्रं, नासाग्रस्य मुक्ताफलं नासाग्रमुक्ताफलम् । स्वार्थे कः । नासाग्रमुक्ताफलकं । तस्य छलं नासाग्रमुक्ताफलकच्छलम् । तेन नासा० । [ किमर्थं पिबति ? । क्षयरोगशान्त्यै क्षयरोगोपशमनाय । किं० चन्द्रः? । अनङ्गसंजीवनदृष्टिशक्तिः अनङ्गस्य संजीवनं अनङ्गसंजीवनं, अनङ्गसंजीवनस्य दृष्टेः ] शक्तिर्यस्य सः स० ॥ ३६॥
परिमलभृतो वाताः शाखा नवाङ्करकोटयो
मधुपतिरतोत्कण्ठाभाजः प्रिया पिकभाषिणी । विरलसुरतखेदोद्गारा वधूवदनेन्दवः
प्रसरति धनाढ्यानां ग्रीष्मे कुतोऽपि गुणोदयः ॥ ३७॥ वधूवदनेन्दवः गुणोदयः ग्रीष्मे ग्रीष्मकाले कुतोऽपि [धनाढ्यानां] धन्यानां प्रसरति। कोऽसौ गुणोदयः ? । परिमलभृतो वाताः गन्धवाहाः पवनाः । शाखाः नवाङ्करकोटयः । पुनः कोऽयं गुणोदयः ? । विरलसुरतखेदोदाराः। किं० सुरतवेदोद्गाराः ? । मधुपतिरतोत्कण्ठाभाजः। पुनरपि कोऽयं गुणोदयः ? । प्रिया पिकभाषिणी । एवंविधो गुणोदयः धन्यानां गृहे भवति ॥ ३७॥
अथ कामवर्धनगुणानाहअच्छाच्छचन्दनराकरा मंगाक्ष्या
धारागृहाणि कुसुमानि च कौमुदी च । मन्दो मरुत् सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ३८ ॥ एते प्रकाराः ग्रीष्मे तपौ मदं चान्यत् मदनं विवर्धयन्ति । के के प्रकाराः । । मृगाक्ष्याः (०क्षी; क्ष्यो) अच्छाच्छचन्दनरसाईकराः ("रा)। अच्छश्च अच्छश्च अच्छाच्छः। अच्छाच्छेन चन्दनरसेन आज़े करौ यस्याः सा अच्छाच्छचन्दनरसाईकराः [] । पुनः के के ?। धारागृहाणि च अन्यत् कुसुमानि । च अन्यत् कौमुदी च अन्यत् सुमनसः। कुसुमस्य मन्दो मरुत् । अन्यत् शुचि हर्म्यपृष्ठम् । एते प्रकारा मदनवर्धना इत्यर्थः ॥ ३८ ॥
१सर्वा मातृका नाशान' इति पठन्ति । २ ख. मधुपतिविरुतो'; ग. मधुरविरुतों'; घ. मधुपतिविरतोच. मधुपरिरतों। ३ ज. आच्छाद्य । ४ हैं. रसार्ध°। ५ क. मृगाक्षी इत्यपि, ख. ग. घ. मृगाक्षा; छ. मृगाक्षी; हं. मृगाक्ष्यो। ६ घ. °पृष्ठे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org