________________
भर्तृहरिकृत-शतकत्रयम्
[२. ३४-३५] वतीनां ललनानां एते दृष्टिबाणा न पतन्ति । किं० दृष्टिबाणाः ? । हृदि धृतिमुषः । पुनः किं० दृष्टिबाणाः ? । नीलपक्ष्माणः । अन्येऽपि बाणा नीलपक्ष्माणो भवन्ति ननु । एतेऽपि तथैव । पुनरपि किं० दृष्टिबाणाः ? । श्रवणपथजुषः। श्रवणयोः पन्थास्तं जुषन्तीति श्रवणपथजुषः । कर्णप्रान्तनेत्रे इत्यर्थः । पुनः किं० दृष्टिबाणाः ? । भ्रूचापाकृष्टमुक्ताः। भ्रूचापेन आकर्णान्तं आकृष्टमुक्ताः भ्रूचापाकृष्टमुक्ताः । तावदेव प्राणी यावद्युवतीनां नयनकटाक्षबाणा न प्रस्फुरन्ति । स एव शूरो यस्य ते न लगन्ति ॥ ३३ ॥
अथ वैराग्यतत्त्वमाह
यदेतत् पूर्णेन्दुद्युतिहरमुदाराकृतिधरं ____ मुखाब्जं तन्वङ्गयाः किल वसति यत्राधरमेधुः ।
इदं तत् किंपाकद्रुमफलमिवातीव विरसं ___ व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ ३४ ॥
तत् इदं वक्ष्यमाणं अस्मिन् यौवने काले व्यतीते व्यतिक्रान्ते सति विषमिव असुखदं भविष्यति । यदेतत्तन्वङ्गयाः कृशोदयी इदं मुखाब्जं पूर्णेन्दुद्युति हरम् । किं० मुखाब्जम् ? । उदाराकृतिधरम् । किल इत्यलीके । यत्र मुखाब्जे अधरमधु वसति । तत् किंपाकद्धमफलं विषवृक्षफलमिव परिणामे अतीव विरसं कालातिक्रमेण अतीव दुःखदं भवति ॥ ३४ ॥
अथ विषादवाक्यमाह
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवालङ्क ___ व्यासङ्गव्यस्तधैर्य कथममलधियो मानसं वा विदध्युः । यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभागास्तरुण्यः॥३५॥ यदि चेत् अस्मिन् असारे संसारे अम्भोजनेत्राः कमलाक्ष्यो न स्युः। 'यत्तदोर्नित्यसंबन्धः' इति न्यायात् । तदा अमलधियो निर्मलबुद्धयो मानसं चित्तं व्यासङ्गव्यस्तधैर्य संगतिनिराकृतसाहसं कथं वा विदध्युः कुर्युः ? । [ किंभूते संसारे ? । कुनृपतिभवनद्वारसेवाकलङ्के कुनृपतिभवनद्वारसेवायाः कलको यस्मिन् तस्मिन् । ] किं० अम्भोजनेत्राः ? । प्रोद्यदिन्दुद्युतिनिचयभृतः । प्रोद्यत् [न] योऽसौ इन्दुः चन्द्रः तस्य द्युति [ निचयं कान्तिसमूहं बिभर्तीति [बिभ्रतीति ] इन्दुद्युति ] निचयभृतः । पुनः किं० अम्भोजनेत्राः ? । प्रेङत्काञ्चीकलापाः । शब्दत्कटि(ख. शब्दकृत्कटि) मेखलाः । पुनरपि किं० अम्भोजनेत्राः ? । स्तनभरविनमन्मध्यभागाः । स्तनभरेण विनमन् मध्यभागो यासां ताः स्तनभ० । पुनः किं० अम्भोजनेत्राः। तरुण्यः युवत्यः ॥ ३५ ॥
१ ग. तत्त्वज्ञाः। २ ग. ज. मधु। ३ ग. इदानीमतिरसं। ४ घ. ष्यति सुखदम्। ५ख. घ. कलङ्क ज. कलंको। ६ख. घ. त्यक्त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org