________________
[२. ३२-३३] शृङ्गारशतकम्
५३ ___ अहो! इदं स्त्रीयत्रं केन सृष्टम् । किं० स्त्री० ? । विषममृतमयम् । पुनः किं० स्त्रीयन्त्रम् ? । प्राणिलोकस्य पाशः। पुनः किं० स्त्रीयन्त्रम् ? । संशयानां संदेहानां आवर्तः । पुनः किं० स्त्रीयन्त्रम् ? । अविनयभवनम् । पुनः किं० स्त्रीयत्रम् ? साहसानां पत्तनम् । पुनः किं० स्त्रीयन्त्रम् ? । दोषाणां संनिधानम् । पुनः किं० स्त्रीयन्त्रम् ? । कपटशतमयम् । पुनः किं० स्त्रीयन्त्रम् ? । अप्रत्ययानां अविश्वासानां क्षेत्रं भूमिः । पुनः किं० स्त्रीयन्त्रम् ? । स्वर्गद्वारस्य विनम् । पुनः किं० स्त्रीयन्त्रम् ? । नरकपुरमुखं । पुनः किं० स्त्रीयन्त्रम् ? । सर्वमायाकरण्डम् । इदं यन्त्रं प्राणिलोकस्य पाशकृते कृतमस्ति । बन्धनार्थम् ॥ ३१ ॥
अथ नारीरूपतिरस्कारमाहनो सत्येन मृगाङ्क ऐष वदनीभूतो न चेन्दीवर
द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वग्मांसास्थिमयं वपुर्मुगदृशां मैत्वा जनः सेवते ॥ ३२ ॥ अहो कष्टं विलोक्यताम् । जनो मृगदृशां नारीणां वपुः शरीरं सेवते । किं० वपुः ? । त्वग्मांसास्थिमयम् । त्वचां मांसानां अस्थीनां च विकारोऽवयवो वा । एकस्वरान्नित्यं मयट्मयप्रत्ययः । कथम् ? । सत्येन एष मृगाङ्कश्चन्द्रो वदनीभूतः ? । अपि तु न । च अन्यत् । इन्दीवरद्वन्द्वं कस्यापि लोचनतां गतम् १ । अपि तु न । अपि पुनः अङ्गयष्टिः कस्यापि कनकैः कृता । अपि तु न । किं० जनः ? । किंत्वेवं पूर्वोक्तप्रकारेण कविभिः प्रतारितमनाः विप्रतारितचेताः । पुनः जनः किं कुर्वन् ? । तवं विजानन्नपि अवगच्छन्नपि परं तथापि मानवो मुह्यते । अतत्त्वमपि तत्त्वं वेत्ति ॥ ३२ ॥
अथ पुरुषाणां मोहनस्वरूपमाहसन्मार्गे तावदास्ते प्रभवति हि नरस्तावदेवेन्द्रियाणां
लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते __ यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥३३॥
नरः सन्मार्गे तावदास्ते तावत्कालं तिष्ठति । हि निश्चितम् । नरो मनुष्यः तावदेव तावत्कालमेव इन्द्रियाणां प्रभवति जयं कुरुते पराभवति वा । नरः प्राणी लजां तावद्विधत्ते तावन्तं कालं लजां करोति । प्राणी विनयमपि तावदेव समालम्बते बिभर्ति । यावल्लीला
१ख. ग. घ. एव । २ ख. चेन्दीवरं । ३ क. च. छ. 'दृशामन्धो; ग. °दृशां मन्दो। ४ ज. सदाल । ५ ख. घ. पथगता। ६ क. मुषाः; ख. मुखाः , ग. ज. °मुखो ; घ. ट. मुखा, छ. मुखः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org