________________
५२
भर्तृहरिकृत-शतकत्रयम्
[२.२९-३१] स्त्रीणां नारीणाम् । एतद्भूषणम् । च अन्यत् । आयुधमपि । एतत्किम् ? । कटाक्षाः । किं० कटाक्षाः ? । भ्रूचातुर्याकुञ्चिताक्षाः भ्रूचातुर्येण आकुञ्चितानि अक्षीणि याभिस्ता भ्रूचातुर्याकुञ्चिताक्षाः । पुनः किं० । स्निग्धा वाचा मधुरवाण्यः । च अन्यत् । लजितान्ता हासाः । पुनः किं०। प्रस्थितं गमनम् । च अन्यत् । स्थितम् । किं० प्रस्थितं च स्थितं । लीलामन्दं लीलया मन्थरं (क. छ. मन्थिर; च. मन्दिरं)। स्त्रीणामेतानि भूषणानि । परमनोवेधनशस्त्रमपि ॥२८॥
तासां तारुण्यस्वरूपमाहस्मितं किंचिद्वनं सरलतरलो दृष्टिविभवः
पैरिस्पन्दो वाचामैभिनवविलासोक्तिसरसः। गतीनामारम्भः किशलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिवें न हि रम्यं मृगदृशः ॥ २९ ॥ तारुण्यं स्पृशन्त्या मृगदृशः । हि निश्चितम् । किमिव (ह) रम्यं न ? । अपि तु रम्यमेव । रम्यं किम् किम् ? । वकं किंचित् सितं हास्ययुक्तम् । दृष्टिविभवः सरलतरलः। वाचा वाणीनां परिस्पन्दो निर्गमः (ख. च. ट. निगमः) अभिनवविलासोक्तिसरसः। अभिनवविलासोक्त्या सरसः अभिनवविलासोक्तिसरसः । पुनः किम् ? । गतीनामारम्भः किशलयितलीला. परिकरः अङ्कुरितलावण्यपरिवारः । तारुण्यसमये पुरन्ध्रीणां किं किं न सुन्दरमित्यर्थः ॥ २९॥
अथ नायिकानां विकारमाहस्मृता भवति तापाय दृष्टी तूंन्मादवर्धनी। स्प॑ष्टा भवति मोहाय सा नाम दयिता कथम् ॥ ३० ॥
नाम इति संबोधने । सा दयिता कथमुच्यते ? । या स्मृता सती तापाय भवति । तु पुनः दृष्टा सती उन्मादवर्ध (°धि) नी भवति । या दयिता स्पृष्टा सती मोहाय भवति, तस्याः [नाम ] दयिता कथं कथ्यते ? ॥ ३० ॥
अथ तासामेव विषन्न [ण्ण ] तामाहआवर्तः संशयानामविनयभवनं पत्तनं साहसानां
दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयत्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ ३१ ॥ १ ग.तरला दृष्टिविशिखा। २ ख. ग. परिस्फन्दो। ३ ग. अभिमति । ४ ख. घ. 'लयति; च. °लयत । ५ क. ग. छ. किमिह । ६ ग. घ. च. दृष्ट्रा । ७ ख. ग. घ. ज. चोन्मादवर्धिनी। ८ घ. दृष्टा । ९ ग. भुवनं । १० हं. पातनं । ११ घ. स्पृष्टं । १२ ग. निभं प्राणिनां मोहपाशः। १३ घ. पाशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org