________________
[२.२६-२८]
शृङ्गारशतकम् नेत्रवलितैः । क्वचित्सुभ्रूभङ्गैः सुष्टो [°ष्ठु] भ्रूभङ्गो येषां ते सुभ्रूभङ्गास्तैः । पुनः किं० नेत्रवलितैः । क्वचिदपि च लजापरिगतैः । लजया परि समन्ताद्भावेन गता मिलिता लज्जापरिगतास्तैः । पुनः किं० नेत्रवलितैः ? । कचिद्भीतित्रस्तैः भीत्या त्रस्ता भीतित्रस्तास्तैः । पुनः किं० नेत्रवलितैः । क्वचिदपि च लीलाविलसितैः । लीलया (क. च. लीलाया) विलसितानि येषां तानि [तैः ] । एवंविधैः चेष्टितैः कृत्वा दिशः कमलप्रकरपरिकीर्णा इव भान्ति ॥ २५॥
युवतीनां स्वाभाविकमण्डनमाहवकं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने
वर्णः वर्णमपाकरिष्णुरेलिनीजिष्णुः कचानां चयः। वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारिषु मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ २६ ॥
युवतिषु तरुणीषु इदं स्वाभाविकं मण्डनं वर्तते । इदं किम् ? । वक्रं चन्द्रविडम्बि चन्द्रानुकारि । लोचने पङ्कजपरीहासक्षमे कमलहास्यसमर्थे । पुनः किं० । वर्णः स्वर्णमपाकरिष्णुः निराकरिष्णुः । पुनः किं० । कचानां चयः अलिनी (नीं) जिष्णुः भ्रमरीवर्णजयनशीलम् (लः)। पुनः किंम् । वक्षोजो कुचौ इभकुम्भविभ्रमहरौ (हं. ज. करौ)। पुनः किम् ? गुर्वी नितम्बस्थली । पुनः किम् ? वाचां मार्दवं सौकुमार्यम् । किंलक्षणासु युवतिषु ? । हारिषु मनोहारिणीषु (ख. च. हारिषु) पुरन्ध्रीणां सहजमण्डनमिदम् ॥ २६॥
नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीम् । सैवामृतमैयी रक्ता विरक्ता विषवल्लरी ॥ २७ ॥
सुगमार्थोऽस्ति । परं तथापि नितम्बिन्या अमृतविषस्वरूपमाह कविः - एकां नितम्बिनीं मुक्त्वा किंचिन्नामृतं न विषम् । एतावता इदमेवामृतं इदमेव विषम् । सैव नितम्बिनी रक्ता सती अमृतमयी विरक्ता सती विषवल्लरी विषवेलिः (हं. वीरुध् ; ख वीरुद् च भीरुत् ;) इत्यर्थः ॥ २७ ॥ एनमेवार्थमाह
भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः। लीलामन्दं प्रस्थितं चे स्थितं च
. स्त्रीणामेतद् भूषणं चायुधं च ॥२८॥ १ घ. विडम्ब । २ क. छ. अलिनीं। ३ ख. घ. लता । ४ ग, तास्ते च । ५ ख. घ. सुस्थितं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org