________________
भर्तृहरिकृत-शतकत्रयम्
[२. २४-२५] तेषाम् । कि० मुग्धाङ्गनानाम् ? । स्तनजघनघनाभोगसंभोगिनीनाम् । स्तनश्व जघनश्च स्तनजघनौ, स्तनजघनयोः घनः प्रचुरो आभोगो विस्तारः स्तनजघनघनाभोगः तस्य सम्यग् भोगो विद्यते यासां ताः स्तनजघनघनाभोगसंभोगिन्यः, तासाम् ॥ २३ ॥
अथ मोहस्य दुश्चेष्टितमाहकान्तेऽत्युत्पललोचनेऽतिविपुलश्रोणीभरेत्युन्नमत्
पीनोत्तुङ्गपयोधरेऽतिसुमुखाम्भोजेऽतिसुभूरिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ २४ ॥ विद्वानपि पुमान् स्त्रियं इति अमुना प्रकारेण दृष्ट्वा माद्यति मोदते अभिरमते प्रस्तौति । अहो मोहस्य दुश्चेष्टितं दुर्विलसितम् । तत्र माद्यति-मदी हर्षे । मोदते-मुद संमोदने । अभिरमते- रम (ट. रमु ) क्रीडायाम् । प्रस्तौति- 'ष्टुञ् स्तुतौ'। 'टु धात्वादेः षः सः ष्टु । निमित्ताभावेस्तु सर्वत्र वर्तमाने या निष्पत्तिः । इतीति किम् ? । हे कान्ते। 'कमु कान्तौ'। कमु काम्यते स्म । 'निष्ठा क्तः' तप्रत्ययः । ‘पञ्चमौपधाया दीर्घः'। का इति निष्पन्नम् । मनोर० । स्त्रियामा० । तस्याः संबोधनं विधीयते। हे कान्ते । हे अत्युत्पललोचने। लोचनाभ्यामतिक्रान्तानि उत्पलानि यया सा अत्युत्पललोचना, तस्याः संबोधनं विधीयते हे अत्युत्पललोचने । हे अतिविपुलश्रोणीभरे । अतीव विपुलं श्रोणीभरं यस्याः सा० । तस्याः संबोधनम् । हे अतिविपुल० । हे अत्युन्नमत्पीनोत्तुङ्गपयोधरे । अति उन्नमन्तौ पीनौ उत्त(तु )ङ्गो पयोधरौ यस्याः, सा०, तस्याः संबोधनम् । हे अतिसुमुखाम्भोजे अतिक्रान्तं सुमुखेन अम्भोज कमलं यया सा०, तस्याः संबोधनम् । हे अतिसुभ्र । अतीव सुष्टे [ ठु] ध्रुवौ यस्याः सा०, तथा तस्याः संबोधनम् । एवंविधां वर्णनां कृत्वा कृत्वा मोहमूढो जनः स्त्रियं स्तौति । किं० स्त्रियम् ? । प्रत्यक्षाशुचिपुत्रिकाम् । प्रत्यक्षं अशुचेः पुत्रिका प्रत्यक्षाशुचिपुत्रिका, ताम् । मोहस्य विडम्बनेति ॥ २४ ॥
अथ रमणीनामङ्गोत्थगुणवर्णनमाह
कचित्सुभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः ___ क्वचिद्भीतित्रस्तैः कचिदपि च लीलाविलसितैः । कुमारीणामेतैर्वदनसुभगैर्नेत्रवैलितैः
कैचिल्लीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ २५ ॥ कुमारीणां सुन्दरीणाम् । एतैर्नेत्रवलितैः नेत्रविभ्रमैः दिशः लीलानानां प्रकरपरिकीर्णा इव वर्तन्ते । किं० नेत्रवलितैः ? (चलितैः) वदनसुभगैः । मुखलावण्येन शोभापरायणैः । किं०
१ ख. घ. सभ्रूभङ्गैः। २ ग. घ. चलितैः। ३ ख. घ. स्फुरल्लीला' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org