Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 105
________________ भर्तृहरिकृत-शतकत्रयम् [२.८०-८२] पुंसां पुरुषाणां इदं अनुचितं अक्रमश्च । यत्तु इह जरस्यपि वार्धक्येऽपि मान्मथाः विकाराः कन्दर्पोद्भूतदोषाः । चान्यत् । यदपि नितम्बिनीनां नारीणां स्तनपतनावधिजीवितं वा अथवा रतं न कृतम् । तदपि अनुचितमक्रमश्च ॥ ७९ ॥ अथ वामाक्षीणां नेत्रपन्नगदंशस्वरूपमाहव्यादीभ्रुण चलेन वक्रगतिना तेजस्विना भोगिना - नीलाञद्युतिनाहिना वरमहं देष्टो न तच्चक्षुषा । देष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे मत्रो न चाप्यौषधम् ॥८॥ अहं अहिना दष्टो वरम् । परं तु तच्चक्षुषा दष्टो न वरम् । तस्याः नायिकायाः चक्षुः तच्चक्षुः तेन । किं० चक्षुषा । भोगिना। पुनः किं० चक्षुषा ? । नीलाब्जद्युतिना नीलकमलकान्तिना । पुनः किं० चक्षुषा ? । व्यादीर्पण कर्णान्तविश्रान्तेन । पुनः किं० चक्षुषा । चलेन चपलेन । पुनः किं० चक्षुषा ? । वक्रगतिना। पुनः किं० चक्षुषा ? । तेजस्विना प्रबलगरलभाजिना। एवंविधेन सर्पण दष्टो वरम् । परं नायिकायाश्चक्षुषा दष्टो न वरम् । कथम् । दष्टे सर्पदष्टे प्रायेण धर्मार्थिनः चिकित्सकाः दिशि दिशि सन्ति । पुनः मुग्धाक्ष्या ईक्षणवीक्षितस्य कटाक्षविद्धस्य मे मम न मत्रं चान्यत् न औषधम् । एतावता सर्पदंशात् कटाक्षवीक्षितं विषमम् ॥ ८० ।। अथ विरहसंगमयोः खरूपमाहविरहेऽपि संगमः खलु परस्परं संगतं मनो येषाम् । हृदयमपि विघटितं संगमेऽपि विरहं विशेषयति ॥ ८१ ॥ येषां पुरुषाणां मनः परस्परं संगतं मिलितं वर्तते । खलु निश्चितम् । तेषां मनुष्याणां विरहेऽपि संगमः । अपि पुनः । हृदयं विघटितं सत् संगमेऽपि संयोगेऽपि विरहं विशेषयति । यदुक्तम्-आसन्ना दूरिहिं ठिया जे चित्तिहिं उब्विट्ठ। चिहुं अंगुलकइ अंतरइ नयणे कन्न न दिट्ठ॥ ८१ ॥ [ एतदनन्तरं प्रथितः प्रणयवतीनां इति श्लोकः छ० कोशे दृश्यते ।] पुनस्तदे( ? मे)वार्थमाहअपसर सखे दूरादस्मात् कटाक्षविषानलात् प्रकृतिविषमाद् योषित्सर्पाद् विलासफणाभृतः । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश् चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मत्रिणः ॥ ८२ ॥ १ ग. घ. वरमहो। २ ज. दृष्टो। ३ ज. दृष्टे । ४ हं. च. छ. सिका। ५ क. छ.. विरहोऽपि। ६ ग. ज. मनो न येषाम्। ७ ख.घ. अपि हृदयं; ग. हृदयमति। ८ ग. संगतेपि; ज. सत्सङ्ग। ९ग, साक्षाचिकित्सितुमौषधं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188