________________
भर्तृहरिकृत-शतकत्रयम्
[२.८०-८२] पुंसां पुरुषाणां इदं अनुचितं अक्रमश्च । यत्तु इह जरस्यपि वार्धक्येऽपि मान्मथाः विकाराः कन्दर्पोद्भूतदोषाः । चान्यत् । यदपि नितम्बिनीनां नारीणां स्तनपतनावधिजीवितं वा अथवा रतं न कृतम् । तदपि अनुचितमक्रमश्च ॥ ७९ ॥
अथ वामाक्षीणां नेत्रपन्नगदंशस्वरूपमाहव्यादीभ्रुण चलेन वक्रगतिना तेजस्विना भोगिना - नीलाञद्युतिनाहिना वरमहं देष्टो न तच्चक्षुषा । देष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य नहि मे मत्रो न चाप्यौषधम् ॥८॥ अहं अहिना दष्टो वरम् । परं तु तच्चक्षुषा दष्टो न वरम् । तस्याः नायिकायाः चक्षुः तच्चक्षुः तेन । किं० चक्षुषा । भोगिना। पुनः किं० चक्षुषा ? । नीलाब्जद्युतिना नीलकमलकान्तिना । पुनः किं० चक्षुषा ? । व्यादीर्पण कर्णान्तविश्रान्तेन । पुनः किं० चक्षुषा । चलेन चपलेन । पुनः किं० चक्षुषा ? । वक्रगतिना। पुनः किं० चक्षुषा ? । तेजस्विना प्रबलगरलभाजिना। एवंविधेन सर्पण दष्टो वरम् । परं नायिकायाश्चक्षुषा दष्टो न वरम् । कथम् । दष्टे सर्पदष्टे प्रायेण धर्मार्थिनः चिकित्सकाः दिशि दिशि सन्ति । पुनः मुग्धाक्ष्या ईक्षणवीक्षितस्य कटाक्षविद्धस्य मे मम न मत्रं चान्यत् न औषधम् । एतावता सर्पदंशात् कटाक्षवीक्षितं विषमम् ॥ ८० ।।
अथ विरहसंगमयोः खरूपमाहविरहेऽपि संगमः खलु परस्परं संगतं मनो येषाम् । हृदयमपि विघटितं संगमेऽपि विरहं विशेषयति ॥ ८१ ॥
येषां पुरुषाणां मनः परस्परं संगतं मिलितं वर्तते । खलु निश्चितम् । तेषां मनुष्याणां विरहेऽपि संगमः । अपि पुनः । हृदयं विघटितं सत् संगमेऽपि संयोगेऽपि विरहं विशेषयति । यदुक्तम्-आसन्ना दूरिहिं ठिया जे चित्तिहिं उब्विट्ठ।
चिहुं अंगुलकइ अंतरइ नयणे कन्न न दिट्ठ॥ ८१ ॥ [ एतदनन्तरं प्रथितः प्रणयवतीनां इति श्लोकः छ० कोशे दृश्यते ।] पुनस्तदे( ? मे)वार्थमाहअपसर सखे दूरादस्मात् कटाक्षविषानलात्
प्रकृतिविषमाद् योषित्सर्पाद् विलासफणाभृतः । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश्
चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मत्रिणः ॥ ८२ ॥ १ ग. घ. वरमहो। २ ज. दृष्टो। ३ ज. दृष्टे । ४ हं. च. छ. सिका। ५ क. छ.. विरहोऽपि। ६ ग. ज. मनो न येषाम्। ७ ख.घ. अपि हृदयं; ग. हृदयमति। ८ ग. संगतेपि; ज. सत्सङ्ग। ९ग, साक्षाचिकित्सितुमौषधं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org