________________
[२. ८३-८४]
शृङ्गारशतकम् .. हे सखे हे मित्र ! अस्मात् योषित्सात् दूरादपसर दूरे भव । किं० योषित्सर्पात् । । कटाक्षविषानलात् कटाक्ष एव विषानलः यस्य सः कटाक्षविषानलः तस्मात् । पुनः किं० योषित्सात् ।। प्रकृतिविषमात् प्रकृत्या विषमः प्रकृतिविषमः तस्मात् । पुनः किं० योषित्सर्पात् ।। विलासफणाभृतः विलासफणावलिं बिभर्ति इति विलासफणाभृत् तस्मात् । इतरफणिना दष्टः प्राणी औषधैश्चिकित्सितुं शक्यः । हि निश्चितम् । चटुलवनिताभोगिग्रस्तं प्राणिनं गारुडिकाः त्यजन्ति परिहरन्ति । एतावता अपरसर्पाद्योषित्सर्पस्तु महाभयंकरः ।। ८२ ॥
अथ चेतसः प्रतिबोधमाहतस्याः स्तनौ यदि घनौ जघनं च हारि
वक्रं च चारु तव चित्त किमाकुलत्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा ,
पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ ८३ ॥ - रे चित्त ! तव आकुलत्वं किम् । यदि चेत्तस्याः नायिकायाः स्तनौ निबिडौ । चान्यत् जघनं काञ्चीतटं हारि मनोहारि । चान्यत् वक्रं चारु मनोहारि । तदा किमपि किं लभ्यते । अपि तु न । यदि चेत्तव तेषु पदार्थेषु वाञ्छा वर्तते तदा पुण्यं कुरु । कथम् ? । पुण्यैर्विना समीहितार्था न भवन्ति ॥ ८३ ॥
अथ विरहिणीनां स्वरूपमाहपान्थस्त्रीविरहानलाहुतिकथामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते । . अप्यते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ ८४ ॥ अधुना सांप्रतम् । एते श्रीखण्डशैलानिलाः मलयाचलपवनाः वान्ति स्फुरन्ति । किं. श्रीखण्डशैलानिलाः ? । क्लान्तिवितानतानवकृतः क्लान्तेर्वितानं क्लान्तिवितानम् । क्लान्तिवितानस्य क्लान्तिसमूहस्य तानवं विस्तारं कुर्वन्तीति क्लान्तिवितानतानवकृतः । पुनः किं० श्रीखण्ड० । नवपाटलापरिमलप्राग्भारपाटच्चराः नवा नवीना या पाटला नवपाटला नवपाटलानां परिमलप्राग्भारः समूहस्तेन पाटच्चराः स्फाटयन्तः (ख. ग्राहिणः)। अपि पुनः माकन्देषु सहकारवृक्षेषु मञ्जरी पिकाङ्गनाभिः कोकिलनायिकाभिः सोत्कण्ठं आलोक्यते निरीक्ष्यते । मञ्जरी किं कुर्वती? । पान्थस्त्रीविरहानलाहुतिकथामातन्वती विस्तारयन्ती । विरह एव अनलः विरहानलः । विरहानले आहुतेः कथा विरहानलाहुतिकथा ताम् ॥ ८४ ।।
१ ख. घ. आलिङ्घयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org