________________
भर्तृहरिकृत-शतकत्रयम्
[२. ८५-८६॥ पुनरपि नायिकानां विरहस्वरूपमाहइतो विद्युहल्लीविलसितमितः केतैकितरु
स्फुरद्गन्धः प्रोद्यजलदनिनेनदत्स्फूर्जितमितः । इतः केकिक्रीडाकलकलरवाः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ॥ ८५ ॥ पक्ष्मलदृशां नायिकानां एते विरहदिवसाः वियोगवासराः कथं यास्यन्ति । किं० विरहदिवसाः। संभृतरसाः संभृतो रसो येषां ते संभृतरसाः । कथम् । इतो विद्युद्वल्लीविलसितम् विद्युदेव वल्ली विद्युदल्ली विद्युद्वल्ल्याः विलसितं विद्युद्वल्लीविलसितम् । इतः केतकितरुस्फुरद्गन्धः केतकीनां तरवः केतकितरवः, तेषां स्फुरद्गन्धः केतकितरुस्फुरद्गन्धः । इतः प्रोद्यञ्जलदनिनदस्फूर्जितम् प्रोद्यन्तः उन्नमन्तो ये जलदा मेघास्तेषां निनदतः (तां) स्फूर्जितं गर्जितं प्रोद्यज्जलदनिनदस्फूर्जितम् । इतः केकिक्रीडाकलकलरवाः केकिनां क्रीडा केकिक्रीडा केकिक्रीडायाः कलकलरवाः शब्दाः केकिक्रीडाकलकलरवाः । एवंविधसंयोगे विरहिणीनां महहुःखम् ॥ ८५ ॥
अथ रामाणां विलासमुद्दिश्याहइमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत
प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः । चिरं चेतश्चौरा अभिनवविकारैकगुरवो
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ ८६ ॥ मृगदृशां मृगाक्षीणां इमे विलासव्यापाराः सुरतोद्यमाः। किमपि अपूर्वा इव विजयन्ते सर्वोत्कर्षेण वर्तन्ते। किं० विलासव्यापाराः।। तारुण्यश्रीनवपरिमलाः तारुण्यश्रीणां नवाः नवीनाः परिमलाः येषां ते तारुण्यश्रीनवपरिमलाः । पुनः किं० विलासव्यापाराः। प्रौढसुरतप्रतापप्रारम्भाः प्रौढो योऽसौ सुरतप्रतापः तस्य प्रारम्भो विद्यते येषां ते प्रौढसुरतप्रतापप्रारम्भाः। पुनः किं० वि० । स्मरविजयदानप्रतिभुवः [स्मरस्य कामस्य विजयदानं स्मरविजयदानं तस्य प्रतिभुवः प्रतिसाक्षिणः स्मरविजयदानप्रतिभुवः।] पुनः किं० वि० ।चिरं चेतश्चौरा:मानसपश्यतोहराः। पुनः किं० वि०। अभिनवविकारैकगुरवः अभिनवविकारस्य एकगुरवः अभिनवविकारैकगुरवः । एवंविधाः विलासाः पुरन्ध्रीणां जयवादिनः प्रतिभान्ति ॥ ८६ ॥
१क. छ. केतकतरु'; ख. केतृकितरु'; ग. 'तरोः। २ घ. निनदस्फू। ३ च. तमिव । ४ज, केकी ५ग, कल इतः पक्ष्मलदृशः। ६ ग. यास्यन्ते । ७ ग. नवपरिमल'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org