________________
[२.८७-८८]
शृङ्गारशतकम् अथ विलासिनीनां (सिजनानां) विलासप्रकारमाहआवासः किलंकिञ्चितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः
केषां चित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥ ८७ ॥
चान्यदत्र चैत्रे चैत्रमासे एते प्रकाराः केषां चित् हृदयं सुखयन्ति सुखमुत्पादयन्ति । के के प्रकाराः ? । किलकिश्चितस्य सुरतशब्दविशेषस्य आवासः । दयितापार्श्वे रमणीसमीपे विलासालसाः। पुनः किं० १ । कर्णे कोकिलकामिनीकलरवः कोकिलस्य कामिनी कोकिलकामिनी कोकिला इत्यर्थः । तस्याः कलरवः कोकिलकामिनीकलरवः । पुनः किं० ? । मेरो लतामण्डपः । पुनः किं० ? । कतिपयैः कविभिः (ख. सत्कविभिः ) समं गोष्ठी । पुनः किं० ? । मुग्धाः सितांशोः कराः मुग्धा मनोज्ञाः सितांशोः चन्द्रमसः कराः किरणाः । अन्यत् किं० ? । विचित्राः सजः कुसुमवणेः गुंफिता मालाः । भाग्यवतां पुंसां एते प्रकाराश्चैत्रे सुखाय भवन्ति ॥ ८७ ॥ पुनस्तदेवमाहसुधाशुभ्रं धाम स्फुरदमलरश्मिः शशिधरः
प्रियावक्राम्भोज मलयजेरजश्वातिसुरभिः। स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तःक्षोभं ने तु विषयसंसर्गविमुखे ॥ ८८ ॥ तदिदं वक्ष्यमाणमखिलं समस्तं रागिणि जने विलासिनि पुरुषे अन्तःक्षोभं मानसविकारं करोति । न तु विषयसंसर्गविमुखे न हि जितेन्द्रिये । इदं किम् ? । सुधाशुभ्रं धाम । पुनः किं० ? । शशिधरः स्फुरदमलरश्मिः स्फुरन्त उल्लसन्तः अमलाः निर्मलाः रश्मयः किरणाः यस्य स स्फुरदमलरश्मिः । एवंविधः शशिधरः । पुनरपि किं० १ । प्रियावक्राम्भोज वल्लभावदनकमलम् । किं० वाम्भोज ? । मलयजरजश्वाति ( क. च. रजसा चाति; छ. जरसा चाति; ट. रसश्चात') सुरभिः (च. सुरति)। पुनरपि किं० ? । स्रजो हृद्यामोदाः मनोहरपरिमलाः । एते सर्वेऽपि रागिणि पुरुषे सुखावहाः । न तु विरागिणि ॥ ८८ ॥
... १ क. च. छ. किंचिदस्य । २ ग. ज. विलासालसा। ३ ग. स्मेरा। ४ क. ग. छ.
मण्डपाः। ५ग. सेव्याः। ६ ग. हिमांशोः; घ. शितांशोः। ७ ग. केषां चित्सुखदानचित्तहदयं चेष्टं विचित्राः स्रजः॥ ८ ग. शशधरः। ९क. रजसाश्चाति; छ. जरसश्वाति । १० क. छ. सुरमि। ११ छ. 'त्यन्तक्षोभं। १२ ज. ननु ।
१. शतकत्र. Jain Education International For Private & Personal Use Only
www.jainelibrary.org