SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ । अथ सा भर्तृहरिकृत-शतकत्रयम् [२.८९-९१] कविरेकान्तस्थितिमाह आवासः क्रियतां गाङ्गे पापारिणि वारिणि । स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ ८९ ॥ रे चेतः ! गाङ्गे वारिणि पानीये आवासः क्रियताम् । गङ्गायाः इदं गानं तस्मिन् स्थितिर्विधीयताम् । किं० वारिणि ? । पापवारिणि पापस्फेटिनि । वा अथवा तरुण्याः स्तनमध्ये आवासः क्रियतां । किं० स्तनमध्ये? । हारिणि अपूर्वे । पुनः किं० ? । मनोहारिणि । सर्व वितथम् ॥ ८९॥ अथ स्वैरिणीनामुद्दिश्याह- . असूचीसंचारे तमसि नभसि प्रौढजलद ध्वनिप्रादुर्भावे पतति पुंषतां नीरनिचये । इदं सौदामिन्याः कनककमनीयं विलसितं __मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ ९० ॥ इदं सौदामिन्याः विद्युतो विलसितं खैरसुदृशां स्वेच्छाचारिणीनां पथि मार्गे मुदं चान्यत् म्लानिं प्रथयति विस्तारयति । किं०. सौदामिन्याः विलसितम् ? । कनककमनीयं कनकवत्कमनीयं मनोज्ञं सुवर्णवन्मनोहरमित्यर्थः । क सति । तमस्यन्धकारे सति । किं० तमसि । असूचीसंचारे असूचीसंचारं सघनमित्यर्थः । पुनः किं० तमसि ? । नभसि आकाशे प्रौढजलदध्वनिप्रादुर्भावे सति प्रबले मेघशब्दे प्रकटिते सति । पृषतां जलकणानां [नीर] निचये अम्भोनिचये सति । खेच्छाचारिणीनां दुर्दिने घने सति हर्षोत्कर्षोऽपि भीतिरपि स्यात् ॥ ९० ॥ अथ रागस्थानमुद्दिश्याहकेशाः संयमिताः श्रुतेरपि परं पारं गते लोचने अन्तर्वक्रमपि स्वभावशुचिभिः कीर्ण द्विजानां गणैः । मुक्तानां सतताधिवासरुचिरं वक्षोजकुम्भद्वयं __ इत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ ९१॥ हे तन्वि हे सुकुमारशरीरे ! ते तव वपुः शरीरं नोऽस्माकं रागं करोति एव । किं. वपुः ? । इत्थं प्रोच्यमानम् । प्रशान्तमपि । इत्थं कथम् ? । केशाः संयमिताः संबद्धाः । लोचने परं प्रकृष्टं श्रुतेरपि पारं गते कर्णप्रान्तगते । चान्यत् वक्रमपि अन्तर्मध्ये द्विजानां गणैः . १च. तारिणि; ज. हारिणि । २ घ. पारिणि । ३ ख. घ. मृगाक्ष्या। ४ ग. घ. अशूची। ५ग. घ. ज. °संसारे। ६ क. छ. पृषतानां च। ७ ख. ग. संयमिन। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy