SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ६१ [२.७७-७९] शृङ्गारशतकम् दुर्जनःप्रग(क)टितचापलो भवति। [पुनः किं० भ्रूविक्षेपः । भुजंगकुटिलः। भुजंगवत्कुटिलः भुजंगकुटिलः । अन्योऽपि खलः ] सर्पवत्कुटिलगतिः स्यात् । अतो भ्रुवोः खलसाम्यं युक्तं सदृक्षत्वात् ॥७६॥ अथ रामायाः विलासचातुर्यमाह'मुग्धे धानुष्कता केयमपूर्वा तव दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ ७७ ॥ हे मुग्धे! इयमपूर्वा (हं. 'वंता) तव धानुष्कता का दृश्यते । या तव धानुष्कता चेतांसि विध्यति (छ. यया धानुष्कतया चेतांसि विध्यसि) परं गुणैरेव न सायकैः बाणैः ॥ ७७ ॥ अथ योगिभोगिनोर्निर्धारत्वमाहएको रागिषु राजते प्रियतमादेहाहारी हरो __ नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात्परः। दुर्वारस्मरबाणपन्नगविषयाँसक्तिमूढो जनः । शेषः कामविडम्बितो हि विषयान् भोक्तुं न मोक्तुं क्षमः॥७८॥ रागिषु पुरुषेषु एको हरो राजते । किं० हरः ।। प्रियतमादेहार्धहारी प्रियतमायाः पार्वत्याः देहार्धहारोऽस्यास्तीति [ प्रियतमा ] देहाहारी । नीरागेषु पुरुषेषु एको जिनो राजते। कि० जिनः ? । यस्मात्परोऽन्यो विमुक्तललनासङ्गो न । विमुक्तः ललनानां नारीणां सङ्गो येन स विमुक्तललनासङ्गः । शेषो जनो विषयान्भोक्तुं चान्यत् मोक्तुं न क्षमः । किं० शेषजनः ? । कामविडम्बितः। पुनः किं० शेषजनः ? । दुर्वारस्मरबाणपन्नगविषव्यासक्तिमूढः (व्यासङ्गमुग्धः) दुर्वारा वारयितुमशक्याः ये स्मरबाणाः त एव पन्नगाः तेषां विषस्य व्यासक्त्या मूढः (व्यासङ्गेन मुग्धो) दुरिस्मरबाणपन्नगविषव्यासक्तिमूढः ॥ ७८ ॥ दैवस्योचितानुचितस्वरूपमाह इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां __ स्तनपतनावैधिजीवितं रतं वा ॥ ७९ ॥ १हं. यथा। २ क. च. ज. विध्यति । ३ ज. जनो। ४ ख. ग. घ. व्यासङ्गमुग्धो। ५ग. °तोस्ति। ६ घ. तदपि । ७ज. यन्नितम्बि हं. नितम्बिन्यानां । ८ ज. तदपि । ९ हं. नादधि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy