________________
भर्तृहरिकृत - शतकत्रयम्
[२.७४-७६]
वियोगी कामी इति वक्ति । अहो मृगशावाक्ष्या मृगनेत्रया वल्लभया विना मे मम इदं जगत् तमोभूतं वर्तते अन्धकाररूपं जातमस्ति । क सति ? | प्रदीपे सति । अन्यदन्धकारं प्रदीपे सति याति परं नैतत् । अग्नौ सत्यपि इतरदन्धकारं अग्नौ कृते सति याति नेदं । चान्यन् नानामणीषु सत्स्वपि विविधमणीषु आलयेषु दत्तेषु सत्सु अन्यदन्धकारं याति । परमेतन्न । एतावता सर्वेभ्योऽन्धकारेभ्यो विलासिनां विरहान्धकारं महत् ॥ ७३ ॥
६८
अथ नायिकानामङ्गोत्थगुणमाह
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ ७४ ॥
सा नायिका रत्नमयीव रेजे शुशुभे । केन ? । मुखेन । किं० मुखेन ? | चन्द्रकान्तेन चन्द्र इव कान्तं चन्द्रकान्तं तेन चन्द्रकान्तेन चन्द्रसदृशवदनेन । पक्षे चन्द्रकान्तेन मणिना । पुनः किं० ? । शिरोरुहैः मूर्धानकेशैः। किं० शिरोरुहैः । महानीलैः । महान्तश्च नीलाश्च महानीलाः तैः, कृष्णवर्णैरित्यर्थः । पक्षे महानीलैः महानीलमणिभिः । पुनः काभ्याम् ? । पाणिभ्यां हस्ताभ्यां । किं० पाणिभ्यां ? । पद्मरागाभ्यां पद्मवत् रागों ययोस्तौ पद्मरागौ ताभ्यां । पक्षे पद्मरागाभ्यां पद्मरागमणिभ्यां । अतः कारणात् सा कविना रत्नमयी प्रोचे ॥ ७४ ॥
तस्या एव वर्णनमाह ।
गुरुणा स्तनभारेण मुखचन्द्रेण भाखता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रेहमयीव सा ॥ ७५ ॥
सा नायिका ग्रहमयीव रेजे । अहो मानुष्यपि ग्रहमयीव कथम् । तदुच्यते । केन ? । स्तनभारेण । किं० स्तनभारेण ? । गुरुणा स्थूलेन । पक्षे गुरुणा सुराचार्येण । पुनः केन ? । मुखचन्द्रेण । किं० मुखचन्द्रेण । भास्वता देदीप्यमानेन । पक्षे भास्वता सूर्येण । पुनः काभ्यां । पादाभ्यां शनैश्वराभ्यां शनैः गजमन्थरगत्या चरत इति शनैश्वरौ ताभ्यां शनैश्वराभ्याम् । पक्षे शनैश्वराभ्यां महाभ्याम् || अनया युक्त्या सा ग्रहमयीवोच्यते ॥ ७५ ॥
अस्याः भ्रुवौ [भ्रुवोः] वक्रत्वमाह -
असितात्मसु संबद्धः समविः कृतचापलः । भुजंगकुटिलस्तेन्या भ्रूविक्षेपः खलायते ॥ ७६ ॥
तन्व्याः सुकुमारशरीरायाः भ्रूविक्षेपः खलायते दुर्जन इवाचरति । किं० भ्रूविक्षेपः ? । असितात्मसु संबद्धः असितः कृष्णः आत्मा येषां ते असितात्मानः तेषु असितात्मसु दुर्जनेषु संबद्धः दुर्जनसंगत इत्यर्थः । अन्योऽपि दुर्जनः खलः असितात्मसु दुर्जनेषु संबद्धो भवति बद्धस्नेहो भवति । पुनः किं० भ्रूविक्षेपः ? । समाविः कृतचापलः समाविः कृतं प्रकटीकृतं चापलं येन सः । अन्योऽपि
१ घ. सरोरुहैः । २ ग. गृह । ३ ख. ज. संबन्धः । ४ ख. ग. घ. ज. समाविष्कृत | ५ ख. तस्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org