________________
[२.७०-७३]
शृङ्गारशतकम् पुनस्तस्या एव हेत्वन्तरमाहतावदेवामृतमयी यावलोचनगोचेरे ।
चक्षुःपथादपेता तु विषादप्यतिरिच्यते ॥ ७० ॥
नायिका यावल्लोचनगोचरे ('रा) तावदेव अमृतमयी। तु पुनः चक्षुःपथात् दृष्टिमार्गात् अपेता सती (ख. चक्षुःसंपातविरहे सति) दूरभूता सती विषादपि गरादपि अतिरिच्यते अधिका भवति ॥ ७० ॥
अथ कामापस्मारमाहन गम्यो मत्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः । भ्रमावेशादङ्गे किमपि विदधद्भङ्गमसमं । ... स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ ७१ ॥
अयं स्मरापस्मारः दृशं दृष्टिं भ्रम ( क. छ. भ्राम ) यति । चान्यत् घूर्णयति । किं. स्मरापस्मारः ? । मन्त्राणां न गम्यः अन्योऽपस्मारः मत्राणां गम्यो भवति, परमयं न । अयं स्मरापस्मारः भैषज्यविषयो न भवति औषधसाध्यो न स्यात् । चान्यत् । अयं स्मरापस्मारः विविधैः शान्तिकशतैः प्रध्वंसं न ब्रजति स्फेटयितुं न शक्यते । अयं स्मरापस्मारः भ्रमावेशात् अङ्गे शरीरे किमपि अपूर्व भङ्गं विदधीत कुर्यात् । अतः कारणात् स्मरावेशो दुस्त्यजः ॥ ७१॥
पुनस्तदेवाह
नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । । यद्भुमनेत्रसंचारतूंचितोऽपि प्रवर्तते ॥ ७२ ॥
नूनं इति संभावनायाम् । मकरध्वजः कन्दर्पः तस्याः सुभ्रवो नायिकाया आज्ञाकरो वर्तते आदेशकृत् वर्तते । अहो निखिलमपि जगत् सर्व कामस्याज्ञावशंवदं वर्तते । स तु कामो नायिकायाः (ख. दयितायाः) आदेशकरः । कथमवगम्यते । यत् यस्मात्कारणात् तस्याः नायिकायाः । भुननेत्रसंचारसूचितोऽपि प्रवर्तते निजव्यापारं कुरुते ॥ ७२ ॥
विरहिणः स्वरूपमाह कविः
सति प्रदीपे सत्यग्नौ सत्सु नानामणीषु च । विना मे मृगशावाझ्या तमोभूतमिदं जगत् ॥ ७३ ॥ १ ख. कोशे इदं पद्यं द्विरस्ति । ख. अमृतमया इत्यपि। २ ख. गोचराः; ख. ग. घ. गोचरा (ख. शोधनात्प्राक् गोचरे)। ३ ग. चक्षुःसंपातविरहे विषादपरिरिच्यते । ४ च. दृशां । ५ ग. पूर्णयति । ६ हैं. संचारः शूचितेऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org