Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 108
________________ [२.८७-८८] शृङ्गारशतकम् अथ विलासिनीनां (सिजनानां) विलासप्रकारमाहआवासः किलंकिञ्चितस्य दयितापार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः केषां चित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥ ८७ ॥ चान्यदत्र चैत्रे चैत्रमासे एते प्रकाराः केषां चित् हृदयं सुखयन्ति सुखमुत्पादयन्ति । के के प्रकाराः ? । किलकिश्चितस्य सुरतशब्दविशेषस्य आवासः । दयितापार्श्वे रमणीसमीपे विलासालसाः। पुनः किं० १ । कर्णे कोकिलकामिनीकलरवः कोकिलस्य कामिनी कोकिलकामिनी कोकिला इत्यर्थः । तस्याः कलरवः कोकिलकामिनीकलरवः । पुनः किं० ? । मेरो लतामण्डपः । पुनः किं० ? । कतिपयैः कविभिः (ख. सत्कविभिः ) समं गोष्ठी । पुनः किं० ? । मुग्धाः सितांशोः कराः मुग्धा मनोज्ञाः सितांशोः चन्द्रमसः कराः किरणाः । अन्यत् किं० ? । विचित्राः सजः कुसुमवणेः गुंफिता मालाः । भाग्यवतां पुंसां एते प्रकाराश्चैत्रे सुखाय भवन्ति ॥ ८७ ॥ पुनस्तदेवमाहसुधाशुभ्रं धाम स्फुरदमलरश्मिः शशिधरः प्रियावक्राम्भोज मलयजेरजश्वातिसुरभिः। स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तःक्षोभं ने तु विषयसंसर्गविमुखे ॥ ८८ ॥ तदिदं वक्ष्यमाणमखिलं समस्तं रागिणि जने विलासिनि पुरुषे अन्तःक्षोभं मानसविकारं करोति । न तु विषयसंसर्गविमुखे न हि जितेन्द्रिये । इदं किम् ? । सुधाशुभ्रं धाम । पुनः किं० ? । शशिधरः स्फुरदमलरश्मिः स्फुरन्त उल्लसन्तः अमलाः निर्मलाः रश्मयः किरणाः यस्य स स्फुरदमलरश्मिः । एवंविधः शशिधरः । पुनरपि किं० १ । प्रियावक्राम्भोज वल्लभावदनकमलम् । किं० वाम्भोज ? । मलयजरजश्वाति ( क. च. रजसा चाति; छ. जरसा चाति; ट. रसश्चात') सुरभिः (च. सुरति)। पुनरपि किं० ? । स्रजो हृद्यामोदाः मनोहरपरिमलाः । एते सर्वेऽपि रागिणि पुरुषे सुखावहाः । न तु विरागिणि ॥ ८८ ॥ ... १ क. च. छ. किंचिदस्य । २ ग. ज. विलासालसा। ३ ग. स्मेरा। ४ क. ग. छ. मण्डपाः। ५ग. सेव्याः। ६ ग. हिमांशोः; घ. शितांशोः। ७ ग. केषां चित्सुखदानचित्तहदयं चेष्टं विचित्राः स्रजः॥ ८ ग. शशधरः। ९क. रजसाश्चाति; छ. जरसश्वाति । १० क. छ. सुरमि। ११ छ. 'त्यन्तक्षोभं। १२ ज. ननु । १. शतकत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188