Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown
________________
भर्तृहरिकृत-शतकत्रयम्
[२. ६७-६९] पारदेशिक (हं. पारिदेशक) स्वरूपमाहकिं गर्तेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् ।
इत्यवीक्ष्य नवमेघमालिकां न प्रयाति पथिकः खमन्दिरम् ॥ ६७ ॥
पथिकः स्वमन्दिरं इति कारणात् न प्रयाति न गच्छति । किं कृत्वा ? । नवमेघमालिकां वीक्ष्य । नवोन्नतमेघं विलोक्य । सा मद्वल्लभा यदि चेन्न जीवति तदा गतेन किम् ? । प्रियतमा चेयदि मद्वियोगेन प्राणिति जीवति तथापि गतेन किम् ? । [ सा मयि मोहं न बिभर्ति अन्यथा जीवति ] कथम् ? ॥ ६७ ॥
अथ सुरतरसमाह
आमीलितनयनानां यः सुरतरसो न संविदं कुरुते ।
मिथुनैमिथोऽवधारितमर्चितमिदमेव कामनिर्वहणम् ॥ ६८ ॥ _यः सुरतरसः यो विषयरसः आमीलितनयनानां नायिकानां संविदं स्वादं न कुरुते । किं० स्वादं ? । मिथुनैमिथः परस्परं अवधारितं ज्ञातम् । कामनिर्वहणं इदमेव यत् अर्चितं मानितमित्यर्थः ॥ ६८॥
अथ स्त्रीचेष्टितमाहप्राङ् मा मेति मनोरमागतगुणं जाताभिलाषं ततः
सबीडं तदनु श्लथीकृततनु प्रत्यस्तधैर्य पुनः । प्रेमार्धस्पृहणीयनिर्भरतक्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ६९ ॥ कुलस्त्रीरतं रम्यम् । किं० कुलस्त्रीरतम् ? । इति अमुना प्रकारेण मनोरमागतगुणं मनोरमो (?म)आगतो गुणः मनोरमागतगुणः, तम् । इतीति किम् ? । प्राक् पूर्व मा मा इति निषेधवाक्यम् । पुनः किं० कुलस्त्रीरतम् ? । जाताभिलाषं समुत्पन्नमनोरथम् । पुनः किं० कुलस्त्रीरतम् ? । तदनु सवीडं ब्रीडासंयुक्तम् । पुनरपि किं० ? । श्लथीकृततनु यथा भवति प्रत्यस्तधैर्य निराकृतसाहसम् । ततस्ततोऽनन्तरं प्रेमार्धस्पृहणीयनिर्भररतक्रीडाप्रगल्भम् । प्रेम्णः अर्ध प्रेमाध, प्रेमार्धन स्पृहणीयं प्रेमास्पृहणीयं तेन निर्भरं रतक्रीडाप्रगल्भं यस्य तत् । ततस्ततोऽनन्तरं निःसङ्गाङ्गविकर्षणाधिकसुखं निःशेषः सङ्गः निःसङ्गः, निःसङ्ग अङ्गं निस्संगाङ्गं तस्य विकर्षणेन अधिकं सुखं यस्य तत् निस्सं० । एभिः प्रकारैः कुलस्त्रीरतं रम्यम् ॥ ६९॥
.१ घ. प्राणति । २ ख. घ. इत्युदीक्ष्य । ३ ख. घ. यत् । ४ ख. घ. रतो। ५ग..मना. गनागतसुखं । ६ ग. श्लथोद्यम । ७ ग. प्रेमाई। ८ ग. निर्झररस। ९ग. निकर्षणा। Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188