Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 47
________________ १२ भर्तृहरिकृत - शतकत्रयम् [१.२५-२७ ] भग्ना व्यर्थीभूता आशा यस्य स भग्नाशः, तस्य भग्नाशस्य । पुनः किं० भोगिनः ? । करण्डपिण्डित ( हं. ज. ट. पीडित ) तनोः करण्डेन पीडितं तनुः शरीरं यस्य । वा पिण्डितं पिण्डीकृतं तनुः शरीरं यस्य स तथाविधस्तस्य । पुनरपि किं० भोगिनः ? । क्षुधा बुभुक्षया ग्लानेन्द्रियस्य ग्लानीभूतानि ग्लानिं प्राप्तानि इन्द्रियाणि यस्य सः, तस्य । एवंविधः स पन्नगः तत्पिशितेन तस्य मूषकस्य मांसेन तृप्तो जातः संतुष्टः । असौ सत्वरं शीघ्रं तेनैव पथा स्वकीयं ईप्सितं स्थानं यातः । तस्माद्यद् दैवं करोति तद्भवति । किमुत्स (सु) कैः प्राणिभिरित्यागमः ॥ २४॥ अथ भाग्यवतामवस्था स्वरूपमाह पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण सांधुवृत्तानामेस्थायिन्यो विपत्तयः ॥ २५ ॥ कन्दुकः सूत्रगेन्दुकः उत्पतत्येव उन्नतिं वा भजत्येव । किं० कन्दुकः ? । कराघातैः हस्तप्रहारैः पातितोऽपि । तथान्यायेन प्रायेण स्वभावेन साधुवृत्तानां विपत्तयः कष्टानि अस्थायिन्यो भवन्ति । न चिरं तिष्ठन्तीत्यर्थः ॥ २५ ॥ अथ भाग्यवतामवस्थास्वरूपं पुनराह - प्रायः कन्दुकपातेनै पत्यार्यः पतन्नपि । तथा त्वनार्यः पतति मृत्पिण्डर्पेतनं यथा ॥ २६ ॥ आर्यः पुण्यवान् प्रायः स्वभावेन कन्दुकपातेन गेन्दुकपातवत् उत्पतति उन्नतिं भजते । किं० आर्यः ? । पतन्नपि पतनं प्राप्नुवन्नपि । तथा पुनः अनार्यो नीचः पतति । यथा शब्द इवार्थे वर्तते । क इव ? | मृत्पिण्डपतनमिव । यथा मृत्पिण्डः पतनं पतति परं उन्नतिं न प्राप्नोति ॥२६॥ अथ पुण्यफलमाह Jain Education International प्रीणाति यः सुचरितैः पितरं स पुत्रो यद् भर्तुरेव हितमिच्छति तत् कलत्रम् । तन् मित्रमापदि सुखे च सैमक्रियं यद् एतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ २७ ॥ 1 स एव पुत्रः यः पितरं जनकं सुचरितैः सदाचारैः प्रीणाति । यद् भर्तुरेव पत्युरेव हितमिच्छति परिणामसुन्दरं वाञ्छति तदेव कलत्रं सैव भार्या । मित्रं तदेव यदापदि कष्टे, 'च अन्यत्, [ सुखे ] सुखोदये समक्रियं सदृशस्नेहम् । वाऽपरम् । केवलम् एतत् त्रयं पूर्वोक्तं जगति पृथिव्यां पुण्यवन्तो ( ट. पुण्यकृतो ) लभन्ते, नापरे ॥ २७ ॥ १ ग. हि सुवृ । २. च. आस्थायिन्यो । ३ ग. घ. छ. पातेनोत्पत । ४ घ. गुडिका । ५. क. च. समं क्रिय । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188