Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 83
________________ भर्तृहरिकृत - शतकत्रयम् [ २.१९-२० हे बाले ! अभी मन्थराः दृष्टिपाताः लीलामुकुलितं यथा भवति किं क्षिप्यन्ते किं प्रेर्यन्ते । विरम विरम । एष ते तव श्रमः व्यर्थो मुधैव । संप्रति एते वयं जगज्जालं तृणमिव आलोकयामो विलोकयामः । कथम् ? । बाल्यं अपरतं विरमितं (ख. ट. उपरतं विरतं ) । आस्था वनान्ते । मोहः क्षीणः । अस्माकमीदृशं स्वरूपं वर्तते । संप्रति वयमीदृशाः स्मः ॥ १८ ॥ अथ कामिनः कामतत्त्वमाह ટ मत्तेभकुम्भपरिणाहिनि कुङ्कुमद्रे कान्तापयोधरतटे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षिप क्षिपयति क्षणलब्धनिद्रः ॥ १९ ॥ धन्यः प्राणी एवंविधां क्षिपां रजनीं क्षिपयति निर्गमयति । किं कृत्वा ? । वक्षो हृदयं पिधाय (च. ट. विधाय ) आच्छाद्य । कथंभूतः सन् ? । भुजपञ्जरमध्यवर्ती सन् । किं० धन्यः ? | कान्तापयोधरतटे रति ( हं. रत० ) खेदखिन्नः । किं० कान्तापयोधरतटे ? । मत्तेभकुम्भपरिणाहिनि । मत्तेभकुम्भवत् परिणाहो विस्तारो विद्यते यस्य स तस्मिन् । पुनः किं०धन्यः ? | क्षणलब्धनिद्रः क्षणमात्रं लब्धा निद्रा येन स क्षणलब्धनिद्रः ॥ १९ ॥ अथ कश्चित्पुमान् कांचिन्नायिकां प्रत्याहअनाघ्रातं पुष्पं किशलयमलूनं कररुहैर् अनाविद्धं रत्नं निर्धुवनमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव भवद्रूपमनघं न जाने भोक्तारं क इह समुपस्थास्यत इति ॥ २० ॥ हे भद्रे ! अन भवद्रूपं प्रति अरमत्यर्थं भोक्ता इति अमुना प्रकारेण क इह अस्मिन् रूपे समुपस्थास्यते । तदहं न जाने । किं० भवद्रूपम् । अनाघ्रातं पुष्पमिव कररुनं नखाग्रैरचुण्टितं किशलयमिव । उत्प्रेक्षते - अनाविद्धं अनुत्कीलितं ( हं. रितं ) रत्नमिव । अनास्वादितरसं ( हं. निधुवनमिव अभुक्तं सुरतमिव शुद्धपाठः ) निधुवनमिव हारहूरमिव । पुनः किं० भवद्रूपम् ? | पुण्यानामखण्डं अक्षतं फलमिव । एतावता नाहं जाने तव पतिं कं विधास्यति भगवान् ॥ २० ॥ अथ दुर्भगसेवकमाश्रित्य कान्तास्वरूपमाह - राजंस्तृष्णाम्बुराशेर्नहि जगति गतः कश्चिदेवावसानं को वाप्यः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागः । १ क. च. छ. ज. माद्रे । २ हं. धन्याः । ५ हैं. पुष्कं । ६ ख. मधुवनम । Jain Education International ३ क. घ. क्षपां । ४ ग. घ. क्षपयति । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188