Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 90
________________ शकारशतकम् [२. ३६-३८] अथ नासामुक्ताफलकवर्णनमाहसुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन । अनङ्गसंजीवनदृष्टिशक्तिः मुखामृतं ते पिबतीति चन्द्रः ॥ ३६ ॥ हे नायिके! । चन्द्रः ते तव मुखामृतमिति पिबति । केन ? । नासाग्रमुक्ताफलकच्छलेन नासाया अयं नासाग्रं, नासाग्रस्य मुक्ताफलं नासाग्रमुक्ताफलम् । स्वार्थे कः । नासाग्रमुक्ताफलकं । तस्य छलं नासाग्रमुक्ताफलकच्छलम् । तेन नासा० । [ किमर्थं पिबति ? । क्षयरोगशान्त्यै क्षयरोगोपशमनाय । किं० चन्द्रः? । अनङ्गसंजीवनदृष्टिशक्तिः अनङ्गस्य संजीवनं अनङ्गसंजीवनं, अनङ्गसंजीवनस्य दृष्टेः ] शक्तिर्यस्य सः स० ॥ ३६॥ परिमलभृतो वाताः शाखा नवाङ्करकोटयो मधुपतिरतोत्कण्ठाभाजः प्रिया पिकभाषिणी । विरलसुरतखेदोद्गारा वधूवदनेन्दवः प्रसरति धनाढ्यानां ग्रीष्मे कुतोऽपि गुणोदयः ॥ ३७॥ वधूवदनेन्दवः गुणोदयः ग्रीष्मे ग्रीष्मकाले कुतोऽपि [धनाढ्यानां] धन्यानां प्रसरति। कोऽसौ गुणोदयः ? । परिमलभृतो वाताः गन्धवाहाः पवनाः । शाखाः नवाङ्करकोटयः । पुनः कोऽयं गुणोदयः ? । विरलसुरतखेदोदाराः। किं० सुरतवेदोद्गाराः ? । मधुपतिरतोत्कण्ठाभाजः। पुनरपि कोऽयं गुणोदयः ? । प्रिया पिकभाषिणी । एवंविधो गुणोदयः धन्यानां गृहे भवति ॥ ३७॥ अथ कामवर्धनगुणानाहअच्छाच्छचन्दनराकरा मंगाक्ष्या धारागृहाणि कुसुमानि च कौमुदी च । मन्दो मरुत् सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ३८ ॥ एते प्रकाराः ग्रीष्मे तपौ मदं चान्यत् मदनं विवर्धयन्ति । के के प्रकाराः । । मृगाक्ष्याः (०क्षी; क्ष्यो) अच्छाच्छचन्दनरसाईकराः ("रा)। अच्छश्च अच्छश्च अच्छाच्छः। अच्छाच्छेन चन्दनरसेन आज़े करौ यस्याः सा अच्छाच्छचन्दनरसाईकराः [] । पुनः के के ?। धारागृहाणि च अन्यत् कुसुमानि । च अन्यत् कौमुदी च अन्यत् सुमनसः। कुसुमस्य मन्दो मरुत् । अन्यत् शुचि हर्म्यपृष्ठम् । एते प्रकारा मदनवर्धना इत्यर्थः ॥ ३८ ॥ १सर्वा मातृका नाशान' इति पठन्ति । २ ख. मधुपतिविरुतो'; ग. मधुरविरुतों'; घ. मधुपतिविरतोच. मधुपरिरतों। ३ ज. आच्छाद्य । ४ हैं. रसार्ध°। ५ क. मृगाक्षी इत्यपि, ख. ग. घ. मृगाक्षा; छ. मृगाक्षी; हं. मृगाक्ष्यो। ६ घ. °पृष्ठे। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188