Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 89
________________ भर्तृहरिकृत-शतकत्रयम् [२. ३४-३५] वतीनां ललनानां एते दृष्टिबाणा न पतन्ति । किं० दृष्टिबाणाः ? । हृदि धृतिमुषः । पुनः किं० दृष्टिबाणाः ? । नीलपक्ष्माणः । अन्येऽपि बाणा नीलपक्ष्माणो भवन्ति ननु । एतेऽपि तथैव । पुनरपि किं० दृष्टिबाणाः ? । श्रवणपथजुषः। श्रवणयोः पन्थास्तं जुषन्तीति श्रवणपथजुषः । कर्णप्रान्तनेत्रे इत्यर्थः । पुनः किं० दृष्टिबाणाः ? । भ्रूचापाकृष्टमुक्ताः। भ्रूचापेन आकर्णान्तं आकृष्टमुक्ताः भ्रूचापाकृष्टमुक्ताः । तावदेव प्राणी यावद्युवतीनां नयनकटाक्षबाणा न प्रस्फुरन्ति । स एव शूरो यस्य ते न लगन्ति ॥ ३३ ॥ अथ वैराग्यतत्त्वमाह यदेतत् पूर्णेन्दुद्युतिहरमुदाराकृतिधरं ____ मुखाब्जं तन्वङ्गयाः किल वसति यत्राधरमेधुः । इदं तत् किंपाकद्रुमफलमिवातीव विरसं ___ व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ ३४ ॥ तत् इदं वक्ष्यमाणं अस्मिन् यौवने काले व्यतीते व्यतिक्रान्ते सति विषमिव असुखदं भविष्यति । यदेतत्तन्वङ्गयाः कृशोदयी इदं मुखाब्जं पूर्णेन्दुद्युति हरम् । किं० मुखाब्जम् ? । उदाराकृतिधरम् । किल इत्यलीके । यत्र मुखाब्जे अधरमधु वसति । तत् किंपाकद्धमफलं विषवृक्षफलमिव परिणामे अतीव विरसं कालातिक्रमेण अतीव दुःखदं भवति ॥ ३४ ॥ अथ विषादवाक्यमाह संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवालङ्क ___ व्यासङ्गव्यस्तधैर्य कथममलधियो मानसं वा विदध्युः । यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभागास्तरुण्यः॥३५॥ यदि चेत् अस्मिन् असारे संसारे अम्भोजनेत्राः कमलाक्ष्यो न स्युः। 'यत्तदोर्नित्यसंबन्धः' इति न्यायात् । तदा अमलधियो निर्मलबुद्धयो मानसं चित्तं व्यासङ्गव्यस्तधैर्य संगतिनिराकृतसाहसं कथं वा विदध्युः कुर्युः ? । [ किंभूते संसारे ? । कुनृपतिभवनद्वारसेवाकलङ्के कुनृपतिभवनद्वारसेवायाः कलको यस्मिन् तस्मिन् । ] किं० अम्भोजनेत्राः ? । प्रोद्यदिन्दुद्युतिनिचयभृतः । प्रोद्यत् [न] योऽसौ इन्दुः चन्द्रः तस्य द्युति [ निचयं कान्तिसमूहं बिभर्तीति [बिभ्रतीति ] इन्दुद्युति ] निचयभृतः । पुनः किं० अम्भोजनेत्राः ? । प्रेङत्काञ्चीकलापाः । शब्दत्कटि(ख. शब्दकृत्कटि) मेखलाः । पुनरपि किं० अम्भोजनेत्राः ? । स्तनभरविनमन्मध्यभागाः । स्तनभरेण विनमन् मध्यभागो यासां ताः स्तनभ० । पुनः किं० अम्भोजनेत्राः। तरुण्यः युवत्यः ॥ ३५ ॥ १ ग. तत्त्वज्ञाः। २ ग. ज. मधु। ३ ग. इदानीमतिरसं। ४ घ. ष्यति सुखदम्। ५ख. घ. कलङ्क ज. कलंको। ६ख. घ. त्यक्त। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188